2022-09-10 13:12:52 by ambuda-bot
This page has not been fully proofread.
॥ श्रीः ॥
॥ मलयमारुतः ॥
॥
॥ प्रथमः स्पन्दः ॥
॥ श्री उच्छिष्टगणपतिमन्त्रमातृकास्तवः ॥ १
ओंकारशुक्तिकान्त-
र्मुक्तामणिमाणवादिनिर्मुक्तम् ।
ओडयाणपीठमध्यग-
मुच्छिष्टगणेशमाश्रयाम्यनिशम् ॥ १ ॥
हरिहरसरसिरुहासन-
सर्गत्रयहेतुमद्वयस्फूर्तिम् ।
हालामदाट्टहासं
हस्तिमुख नौमि हंसमन्त्रार्थम् ॥ २ ॥
स्तिमितान्तःकरणेभ्यः
शमिताहंताविकारवृत्तिभ्यः ।
अमितैश्वर्यदमनिशं
निमिषध्यानान्नमामि गणनाथम् ॥ ३ ॥
अडयार्- कोशागारस्थमातृकात: ।
॥ मलयमारुतः ॥
॥
॥ प्रथमः स्पन्दः ॥
॥ श्री उच्छिष्टगणपतिमन्त्रमातृकास्तवः ॥ १
ओंकारशुक्तिकान्त-
र्मुक्तामणिमाणवादिनिर्मुक्तम् ।
ओडयाणपीठमध्यग-
मुच्छिष्टगणेशमाश्रयाम्यनिशम् ॥ १ ॥
हरिहरसरसिरुहासन-
सर्गत्रयहेतुमद्वयस्फूर्तिम् ।
हालामदाट्टहासं
हस्तिमुख नौमि हंसमन्त्रार्थम् ॥ २ ॥
स्तिमितान्तःकरणेभ्यः
शमिताहंताविकारवृत्तिभ्यः ।
अमितैश्वर्यदमनिशं
निमिषध्यानान्नमामि गणनाथम् ॥ ३ ॥
अडयार्- कोशागारस्थमातृकात: ।