This page has not been fully proofread.

(zl)
 
मलयमारुतस्य भाविषु स्पन्देषु प्रकाशनार्थं विदुषां रसिकानां हस्तलिखित-
मातृकालयस्थानां च सुहृदां सहयोगः प्रार्थ्यते । खण्डकाव्यादिलघुग्रन्थानद्या-
वध्यमुद्रितान् प्रेष्य समारम्भमिममविच्छिन्नाभिवृद्धिसंपादनेन सफलयन्तु ते ।
मलयमारुतस्य स्पन्दैरुत्प्राणिता संतसाहिती अप्रकाशशिशिरजडीभावमुत्सृज्य,
मन्ये, स्वीयैः अपर्याप्तैरासेचनकैः विभ्रमैः भावैश्च सहृदयानानन्दयिष्यति ॥
 
स्कृ
 
वे. राघवः
 
महाशिवरात्रिः ।
१८-२-६६