This page has not been fully proofread.

(x)
 
इदमपि लघुग्रन्थप्रकाशनकार्यं सूचितम् । तदर्थ 'मलयमारुत' - नामा कश्चन
काव्यमालागुच्छकानुसारी तदातदा प्रकाश्यमानः संग्रहो मया केन्द्रीय विद्या-
पीठद्वारा संपिपादयिषित इति सदस्येभ्यो निवेदितं, तच्च तैरनुमोदितम् । तस्य
'मलयमारुतस्य' अयं प्रथमः स्पन्दः विदुषां रसिकानां च हृदयस्पर्शी नूनं
तानुत्पुलकयिष्यतीति विश्वसिमि ।
 
काव्यमालागुच्छकेषु या रीतिरनुसृता सैव अस्मिन् मलयमारुतेऽनुस-
रिप्यते । खण्डकाव्य-लघुरूपक-शतक - स्तोत्र - सुभाषितप्रायं संस्कृतसाहित्यजातमत्र
प्रकाशयिष्यते । यत्र कस्यापि लघुग्रन्थस्य एकाधिका: मातृका: सुलभाः, तत्र
मातृकासंवादपुरस्सरं स लघुग्रन्थः सम्यक्संशोध्य मुद्रापयिष्यते । ग्रन्थतत्कर्तृ-
विषये ज्ञायते चेद्द्वृत्तान्त:, सः अत्यन्तं संग्रहेण दास्यते । एवमेव च तत्र तत्र
ग्रन्थपङ्क्तिवैशद्यार्थमपेक्षिता लघ्व्यः टिप्पण्यश्च ।
 
अस्मिन् प्रथमे स्पन्दे नव लघुग्रन्था उपहृताः । यथोचितं वरप्रसादिनः
'उच्छिष्टगणपतेः' 'स्तवेन' समारम्भः । तदनन्तरं वागधिष्ठात्र्या 'महाराज्या: '
काश्मीरककृष्णक विकृतं 'स्तोत्रम्' । शिवाद्वैतानुभवशालिनी 'दशश्लोकी' १४-
शतकीयस्य होय्सलास्थानविदुषो विद्याचक्रवर्तिनः कृतिस्तदनन्तरम् । पश्चात्
श्रीशङ्कराचार्यकृतभजगोविन्दप्रतिरूपकतया त्यागराजकविना कृत 'उपदेशशिखा-
'षडृतुवर्णन 'मज्ञातकर्तृकं तञ्जापुरस्थ -सरस्वतीमहाल- पुस्तकालयात् ।
गौरमोहनसङ्कलितः 'कवितामृतकूप:' मद्रपुरराजकीय हस्तलिखितकोशागारस्थां
'मातृकामालम्ब्य मुद्रितः; अयं सार्धशतकवर्षेभ्यः पूर्वं कलकत्तानगरे मुद्रित
इति श्रूयते । 'नराभरण'-नामा सुभाषितसंग्रहः पूर्वोद्दिष्टपुस्तकालयस्थमातृकातः
उद्धृतः ।
'सोमनाथशतकं' सङ्गीतलक्षणविंदा कविना सोमनाथेन विरचितं
 
मणिः' ।
 
सदुपदेशपरमन्ते भगवद्भक्तिपरं च । अन्ते सप्तदशशतकीयेन जयपुरास्थान-
कविना हरिजीवनमिश्रेण विरचितेषु पञ्चषेषु प्रहसनप्रायेषु एकाङ्करूपकेषु एकं
'विबुधमोहनं' नाम, यत्र तत्तच्छास्त्रसिद्धान्तचर्चापूर्वे साहित्यविद्यायाः पारम्यं
प्रतिपाद्यते । एषु महाराज्ञीस्तोत्रस्य, उपदेशशिखामणेश्च आघारतया मातृका-
त्रयं मातृकाद्वयं चोपात्तम् ।
 
-