This page has not been fully proofread.

सप्तमः सर्गः ।
 
19
 
अजस्रसस्यास्थितरोचिषि क्षमामुधावधूमूर्धनि चोलसीमनि ।
चकास्ति या सारसधूलिधूसरा मनोज्ञसिन्दूरमयीव रेखिका ॥
 
श्रीरङ्गक्षेत्रगमनम्
 
द्विधाभवन्त्याऽथ कवेरकन्यया ढोपगूढे धुरि रङ्गमन्दिरे ।
असौ निमज्जन्नधिचन्द्रपुष्करिण्यहीन्द्रतल्पं हरिमित्यवन्दत ॥
 
पितामहस्यापि पितामहो भवान्
प्रभो न किञ्चिद्भवतोऽस्ति कारणम् ।
बिर्भात रूपाणि बहन्यपि स्वयं
जनावनैषी जगदीश मायया ॥८॥
 
पुराणवाणीमपहृत्य वारिधौ
 
पुरा मुरारे दनुजे तिरोहिते ।
कटाक्षवीक्षोपचितात्भूर्भवान्
 
रमाक्षिलक्ष्मीमवहत् झषाकृतिः ॥९॥
 
परिभ्रमन्मन्दरघर्षणोदय-
त्किणोपमैबिन्दुभिरङ्किताकृतिः ।
 
सुधान्धसां स्वस्तिनिमित्तमादधे
पयोधिकन्याप्रपदश्रियं भवान् ॥१०॥
 
पयोधिकन्याकुचपर्वतद्वयी-
भरं विसोढुं खुरलीपरिश्रमम् ।
 
पितामहस्य ब्रह्मणः पिता पद्मं तलिता ॥८॥
रमाक्षिलक्ष्मीमवहत् रमया सप्रेमदृष्टः ॥९॥
कमंपृष्ठजयिष्णुप्रपदान्त्रिता लक्ष्मीः ॥१०॥