This page has not been fully proofread.

78
 
श्रीशङ्कराभ्युदये
 
सप्तमः सर्गः
 
कावेरीतीरयात्रा
 
अथाप्लुतः संप्रति नूपुरापगासदानदीमातृकशक्रनिष्कुटे ।
वृषाचले वीक्ष्य स सुन्दरं हरिं शनैरयं सह्यसुतामुदक्षत ॥१॥
समीरणालोलसरोजवाटिका नितान्त निष्यन्दिमरन्दनिर्झरैः ।
पदे पदे या परिवृद्धिमेयुषी प्रयाति लोकेषु मरुद्बुधाभिधा ॥२
सुधारसस्वादिमधिक्क्रियाकृतः
स्वपाथसो वैवधिकैः सुधान्धसाम् ।
विलम्बिताः फलभारभंगुरै-
विराजते या तटकेरभूरुहैः ॥ ३ ॥
 
सुधारसस्यास्य च भो सुधान्धसः
समीक्ष्यतां तारतमीति या स्वयम् ।
उदस्त केर द्रुभुजोच्चकैदिश-
त्यदः फलेष्वंबु गृहीतमात्मनः ॥४॥
 
प्रशस्त चिक्रोटकदष्टयत्तटप्ररूढ के हुफलाम्बुनिर्झरैः ।
प्रसपिणी सत्पथसीम्नि सारिणी सुरस्रवन्तीत्यभिमन्यते सुरैः ॥
 
वृषाचल: अळगर्मलै इति प्रसिद्धो मधुरान्तिकस्थो दिव्यदेशः ।
नूपुरापगा नूपुरगंगा । सह्यसुता कावेरी ॥१॥
 
वैवधिकाः जलवाहकाः । स्कन्धे उभयतो दण्डलंबिनौ जलपूर्णी
कलशौ वहन् वैवधिकः ॥३॥
 
चिक्रोटक: श्वजात्यो वृक्षारोही मर्कटसरश: । ( भाषायां मरनाय् )
सत्पथं वियत् ॥४॥