This page has not been fully proofread.

श्रीशङ्करा भ्युदये
 
अस्तरावणमदार्जुनहं
 
भार्गवञ्च भगवन्निरस्यतः ।
 
कीर्तये न तव रक्षसां जयं कि हरिश्शशवधेन शस्यते ॥४१॥
 
76
 
रामेश्वरागमनम्
 
इत्थं ककुत्स्थ नृपतिस्थपतेर्यशांसि
संकीर्तयन्नघहराणि स संयमीन्द्रः ।
सिन्धौ निमज्ज्य सहपवतवर्धनीकं
 
श्री रामनाथमभिनन्द्य ततस्तमस्तौत् ॥ ४२ ॥
 
उद्दण्डै र्दशकण्ठबाहुपरिघैरुत्क्षिप्यमाणो हठात्
कैलासो निजवामभागसभयोत्कंपाधिकोद्यत्क्रुधा ।
येनाङ्गुष्ठविपीडननुट ददोमे दोबसालेपनात्
सद्यस्संघटितोऽजनिट स भवान्निःश्रेयसायास्तु नः ॥४३
 
मस्कतमणिमांसलांशुजाल:
 
क्वचिदितरत्न भवान्प्रवालशोभः ।
 
युगपदुदितशर्वरीदिनश्रीः
 
शिव कुरुषेऽधं इति श्रुति यथार्थम् ॥४४॥
 
रावणोऽर्जुनेन, कार्तवीर्येण जितः । अर्जुनश्च परशुरामेण हतः ।
परशुरामश्च भवता जितः । भवदग्रे रावणः शशः ॥४१॥
 
कैलासो रावणेन उत्क्षिप्तः शतशो भिन्नः । शिवेन स्वांगुष्ठाग्र-
निपोडनेन रावणदो: पेषणं कृत्वा ततः प्रवहतो: मेदोवसयोः लेपेन
कैलाससंघटना कृता ॥४३॥
 
शर्वरोश्रोः चन्द्रः, दिनश्री सूर्यः । श्रुतिर्जनश्रुतिः "द्विधा कृत्वा -
मनो देहमर्धेन पुरुषोऽभवत् । अर्धेन नारी " (मनु. 1-32 ) ॥४४॥