This page has not been fully proofread.

षष्ठः सर्गः ।
 
वालरोमवंशंगाशरप्रभोर्वा
 
लिनो लघु भुजान्तरान्तरे ।
बाणतो विघटिते त्वयि द्विषां गाढमाप घटिताररं पुरम् ॥
 
भ्रातृवत्सलतया तमध्यवन्पाकशासनिमुपेन्द्र वायसम् ।
वालिनं त्वमपराधवर्जितं निर्दयं निहतवान्कथं प्रभो ॥ २४ ॥
 
त्वद्भटेन पुरतोरणस्थिति तन्वताऽनिलतनूभुवा द्विधा ।
अक्षहीनमयमाशराग्रणीः स्वं व्यबुद्धयत सुते मृधे हृते ॥ ३५ ॥
राज्यदानविधिनाऽग्रजन्मनः प्रेमभाजनतया च तादृशा ।
ईश कीशसदसामधीशितुः निर्विशेषमकृथा विभीषणम् ॥ २६ ॥
 
ईदृशं शयनधाम नेतरत्सङ्कटेत युगसंक्षये मम ।
इत्यतस्स सरितां किमोशिता नाशितो न भवता शरचिषा ॥
 
सायकस्तव समुद्रचूषणे कौशलं किमपि कूलमुद्रुजम् ।
कुम्भसम्भवतपोधनान्तिके किन्नु राघव वसन्नुपाददे ॥२८॥
 
73
 
पुरा वालिना आशरप्रभु: रावणः वालरोम्गा बद्ध: । गाढ़
घटेतारं दृढतया बद्धकवाटं रामद्भीतेः ॥२३॥'
 
उपेन्द्र अदितेरिन्द्रानुजत्वेन जातः । भ्रातरि इन्द्रे वात्सल्येन
जयन्तं काकमरक्ष इति चेत्, वालिनं कुतोऽवधीः सोऽपि इन्द्रसुतः
किल ? ॥२४॥
 
,
 
-
 
तोरणं बहिर्द्वारम् । द्विधा तन्वता, भिन्दता । पुरतः रण-
स्थिति रणेऽवस्थानं द्विधा बहुप्रकारं तन्वता, अक्षहीनं अक्षाख्य-
सुतहीनं नेत्रहीनं च ॥२५।
 
कीश सदस। मधोशिता सुग्रीवः ॥२६॥
कूलमुद्रुजं कूलङ्कषं अतिशायितम् ॥२८॥