This page has not been fully proofread.

92
 
श्रीशङ्कराभ्युदये
 
वालिनं बलिनमप्युपेक्ष्य यद्वासराधिपसुतेऽकृथा दयाम् ।
मा वयाम्य मिहोपधि प्रभो भानुवंशजनिमेव तावकीम् ॥ १८ ॥
 
भाविसेतुकृतये पयोनिधौ राम पातयितुमेव रंहसा ।
दूरमग्रचरणेन दुन्दुभेः कायमायतमुदक्षिण द्भवान् ॥ १९ ॥
 
साधु वल्कमपि सप्तताममी बिभ्रतं किमु विडम्बयन्ति माम् ।
इत्युदीष्र्ण्य इव भूरुहो भवात् गाढमेवमभिनच्छरेण किम् ॥
 
निर्दलय्य नगमेककं पुरा हंसचारमकृथाः क्षितौ परम् ।
सप्त तान्सपदि पाटयन्यशोहंसचारमधुना जगत्त्रये ॥ २१ ॥
 
मारुतावृतमहेषुरन्ध्रभूमन्द्रकन्दलितसैकषट्स्वरा ।
त्वद्यशोभरमशेषशोभनं सप्तसाल्य निशमीश गायति ॥२२॥
 
-----------------------------
 
‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒
 
कबन्धनामानं मुक्तमकरोत् । घन: सूर्योत्यतापमुन्मूलयति, भवान्
सूर्यभवसुग्रीवतापं उदमूलधत् । स मारुतसहाय, भवान् वायुसुत
हनुमत्सहाः ॥१७॥
 
उपधिर्व्याजः । बली वाली, न तथा सुग्रोव: । वंशपतिसूर्य-
पक्षपाती सूर्यसुतं अपालयः ॥
 
साधु वल्क: वल्कलः, शोभना त्वक् च । सप्तता सजटत्वं सप्त-
संख्याकत्वं च । तो जटा ॥२०॥
 
पूर्व एक नगं पर्वतं मन्दरं निर्दलथ्य स्थानान्निभिद्य हंसचारं
गरुडनीतं अकृथाः अमृतमथनार्थे। अधुना तान्नगान् वृक्षान् सप्त तालान्
पाटयन् यशोहंतचारमकृथाः । २१ ।
 
महेषुणा कृते रम्ध्रे मारुतेनावृते उत्पन्नाः सैकषट्स्वपः सप्त-
स्वराः यस्यां सा सप्तसाली सप्तानां सालानां समूहः ॥२२॥