This page has not been fully proofread.

षष्ट: सर्ग: ।
 
वत्स साधय बनाय मौनिनां इत्यधीश गुरुणा समीरितः ।
त्वं गतस्तदवनाय तज्जनैः कीर्त्यले गुरुनियोगकृत्कथम् ॥ १२॥
हन्त काकहतकस्य लोचनं विद्धमस्तु भवता तृणाग्रतः ।
मोचनेन पुनरस्य मोदवान् कौशिको वद कृतः कथं नु वा ॥
आसिकां धुरि दशाननस्वसुः नासिकामपि न सोढवानसि ।
आशरानपि खरान्सदूषणान् आतनोस्त्वमखरानदूषणान् ॥१४॥
 
71
 
राम हेमहरिणार्भकग्रहे हा तवापि वितथः श्रमोऽभवत् ।
कांक्षितं भुवि लभेत को नु वा काननेषु मृगतृष्णया भ्रमन् ॥
 
राज्यसंपदि विसृज्य रागितां काननैककृतजीवनोऽपि सन् ।
राम हेममृगतृष्णया जनस्थानसोमनि कुतोऽकृथाः श्रमम् ॥१६॥
 
मुक्तमाशु कलयन्कबन्धमुन्मूलितार्कभवतापवैभवः ।
देव मारुतसहायवान्भवान् दक्षिणां दिशमगाधनोपमः ॥ १७ ॥
 
वनाय साधयेति पित्रोक्नं, त्वं तु अवनाय ( रक्षणाय ) गतः इति
किमेतत् पितृवाक्यपालनम् ? ॥१२॥
 
काकहतकमोचनं वौशिकस्य काकशोरुलूकस्य न तोषाय । अत्र तु
कौशिको मुदमाप । कौशिक इन्द्र: काकरूपजयन्तस्य पिता ॥१३॥
 
दशाननस्वसुः शूर्पणख्या: धुरि आसिकांपुरतः स्थिति न सोढवान्,
न वा नासिकां सोढवान् । अत एव कर्तितवान् । खगन् खर-
प्रभृतीन् दृषणादियुतान् न सोढवान् परं युद्धे मृतानां अपरावर्तिनां
देवत्वा पादनेन अखरान् सौम्यान् अदूषणान् दूषणरहितान् आतनोः ॥१८॥
 

 
पूर्व राज्यसंपदि जनमध्यवासे मंगदि च रागिता त्यक्ता । अधुना
जनस्थानसीमनिवाङ्गीकृत: । हेममृगे तृष्णा अधुना इत्येतत्कुतः ? ॥
भवान् घनोपमः । घन: कबन्धं उदकं मुक्तं करोति, भवान्