This page has not been fully proofread.

स्वागतव्याहारः कृतः, यो राजां स्वागतकरणे एव प्रदश्येत ।
अतोऽस्य 'दन्तिद्योतिदिवाप्रदीपाङ्कः' इति विरुदमासीत् । अयं
रत्नखेटदीक्षित इत्यपि प्रसिद्ध आसीतु ।
 
सन्ध्यासन्धुक्षितांभोधरनलिकगणादुद्गतान् सीसखण्डान्
ताराकारान्निरोधुं शशिरविकपटाद्विभ्रतो रत्नखेटौ ।
अन्योन्यं युध्यमानावृदयचरमभूभृत्प्रवीराविति
 
द्राक्
उक्त्या ख्यातापराख्यः क्षितिपतिवचसा रत्नखेटाध्वरीति ॥
इति राजचूडामणि दीक्षित कृत रुविमणी परिणयाव्य महाकाव्य-
व्याख्यात्रा बालयज्ञवेदेश्वरेण 'सन्ध्यावर्णनचातुरीप्रमुदितेन राज्ञा
कृतं नाम रत्नखेटाध्वरीति' कथ्यते । स्वपितरि रत्नखेटदीक्षिते
कवेरस्य परा भक्तिः स्वपूर्वजेषु परमादरच श्रीशङ्करभगवत्पाद-
विजययात्रावसरे,
 
पवित्रयन्नव स भैक्षचर्यया स्वयं भवस्वामिसुधीनिकेतनम् ।
पिनाकिनों प्राप धुनों निवर्तते पिनाकिनी यत्र निमज्जतां तनुः ॥
(७-४०)
 
निरीक्षमाणः पथि सत्यमङ्गलं निवासयोग्यं मणिखेटयज्वनः ।
पयोनदीं प्राप पयो यदम्भसा विमिश्रितं वेत्तुमलं न सारसाः ॥
(७-४४)
 
इति पिनाकिनीपयोनदीतीरयात्राव्याजेन प्रकटीक्रियते । रत्न-
खेटाध्वरिणो द्वितीयः पुतः अर्धनारीश्वरदीक्षितः । ईश्वर-
दीक्षित इत्यपि तं वदन्ति । सोऽस्य विद्यागुरुः । अत एव
सर्वत्र सर्गान्ते "श्री मदर्धनारीश्वरगुरुचरण सहजतालब्धविद्या-
वैशद्यस्य" इति स्मरणेन, ग्रन्थारम्भ एव 'अधीत्य निखिलं
शास्त्रमग्रजादीश्वरेष्टिनः" इति स्मरणेन च गुरुभक्ति प्रकटय-
त्ययं कविः ॥