This page has not been fully proofread.

श्रीशङ्कराभ्युदयें
 
गौतमस्य गृहिणी विभो भवत्पादपङ्करुहतः पवित्रता ।
इत्युदश्वति न विस्मयो जगत्पावनी तदुदिता वियधुनी ॥७॥
धन्ववर्यमपि तन्बति त्वयि प्राप्तभंगमधुना घनप्रभे ।
सीतयोदितशुभांकुरश्रिया सद्य एव समभावि राघव ॥८॥
मैथिलीपदतलं मणीशिलां मङ्गलार्थमधिरोपयन् भवान् ।
पादरेणुमहिमानमामृशन्नस्तशङ्कमवदन्मनुं किमु ॥ ९॥
 
70
 
इक्षुदण्डमिव खण्डयन्भवान् इन्दुखण्डमकुटस्य कार्मुकम् ।
तद्विनेयधनुषोऽधिरोपणात् कीर्तिमीश कियतीभवाप्स्यसि ॥१०॥
 
जानकी हरशरासकर्षणात् जानती निजकरग्रहोत्सवम् ।
तद्विनेयविशिखास रोपणे त्वामवेक्षततमां किमीर्ष्यया ॥११॥
 
पादपद्मभवा गंगा जगत्सर्वं पावयतीति अहल्यायाः पवित्रीकरणं
न विस्मयावहम् ॥७॥
 
9
 
धनप्रभो मेधाभ: धन्व मरुप्रदेशो धनुश्च । धनो यथा धन्व
प्राप्तभंगं करोति तथा त्वमपि । धन्वप्रदेशे वृष्ट्या पुष्टे सीतया हल-
मुखेन शुभांकुरश्रोः सद्यः संपद्यते, भग्नधनुषि त्वयि सीतया उदित-
शुभांकुरया समभावि ॥८॥
 
सीतायाः पादतलं अश्मानमारोपयन् राघव: "अश्मानमारोह
अश्मेव त्वं स्थिरा भव" इति मन्त्रमवदत् । मन्त्रमहिम्ना सीताया
अश्मतापत्तौ किं करणीयमिति तस्य शङ्कव नोदिता, यतः स तदा
स्वपादतलमहिमानं शिलाया अहल्यात्वापादकं आमृशन्नेव पादमश्म-
न्यारोपयत् ॥९॥
 
शिवादधीतधनुर्वेदः परशुराम इति शिवशिष्यः ॥ १०॥
 
शिवधनुभंगात् अहं सीता प्राप्ता । वैष्णवधनुभंगात् काप्यन्या
राममहिषी संपद्येत वेति ईर्ष्यया ॥११॥