This page has not been fully proofread.

षष्ठः सर्ग:
 
दर्भशयनयात्रा
 
शेखरोऽथ यमिनां सहानुगः सेतुदर्शनकुतूहलाद्व्रजन् ।
सिन्धुबन्धुतटसोम्नि राघवं दर्भपूलकृततल्पमस्तुत ॥ १ ॥
नित्यमेव निजमण्डलान्तरे बिभ्रति प्रणयतो विवस्वति ।
भूषयन्भुवननाथ तत्कुलं भूतलं दशरथादवातरः ॥ २॥
 
निर्दयं गुरुगिरा पुराजनौ निघ्नता स्वजननीमपि त्वया ।
न व्यधायि पुरुषादिनीवधे हन्त नाथ करुणेति नाद्भुतम् ॥३
 
वैरमंकुरयितुं किमम्बुधौ वीरराक्षसकृते न्यमज्जयः ।
मानवास्त्रमयप्राशसन्दितं ताटकातनयमेव मारिचम् ॥४॥
स्वीयवंशजनुना त्रिशंकुना सोयमध्वरमकारयत्पुरा ।
इत्युदोतनतिरीश याजयन कौशिकं कलयसे कृतज्ञताम् ॥५॥
 
ऊरुरुज्ज्वलगुणामजीजनन्मानिनों मघवमोहिनीं पुरा ।
इत्युदोर्ष्यमिव ते पदांबुजं तादृशीमजनयत्तलोदरीम् ॥ ६॥
 
सूर्य: स्वमण्डलमध्ये नित्यमेव मां बिभर्ति इति प्रणयेन तत्कुले
 
अवतार ॥२॥
 
पुराजनौ परशुरामावतारे ॥३॥
 
वीरराक्षसकृते रावणादीनां वध्यानां कृते वैरं अंकुरयितुं मारीचं
बीजभूतं जले न्यमज्जयः ॥४॥
 
पुरा ऊरु: उर्वशीमजनयत् नारायणावतारे इतीर्ण्यया इदानीं पदं
अहल्यामजनयत् ॥६॥
 
?