This page has not been fully proofread.

68
 
श्रीशङ्कराभ्युदये
 
तन्वन्नीलसरोजदामसुषमानिणिद्रतां कैशिके
श्रीमीनाक्षि शुभानि से कलयतान्मुग्धः कटाक्षांकुरः ॥
 
अनुदिनमिति देवीमर्चयन्वाक्प्रसूनैः
अविरतसृम रोच्चैस्सौरभीसौलभीकैः ।
निगम शिखर
चिन्ता निर्वृतो निर्थ्यलीकैः
बहुदिनमिह वासं बह्वमंस्तार्यपादः ॥४९॥
 
इति दन्तिद्योतिदिवाप्रदोषाङ्क - सत्यमङ्गल रत्न खेट श्रीनिवासदीक्षित-
तनूजस्य कामाक्षीगर्भसम्भवस्य श्रीमदर्धनारीश्वरगुरुचरण सहजता-
लब्धविद्यावैशद्यस्य राजचूडामणिदीक्षितस्य कृतिषु
शङ्कराभ्युदये काव्ये पञ्चमः सर्गः ।