This page has not been fully proofread.

66
 
श्रीशङ्कराभ्युदये
 
वक्त्राम्भोरुहरामणीयकसुधापाथोधिनारायणः
कांक्षापूतिकृदस्तु मीननयने कान्तः कटाक्षस्तव ॥४०॥
 
हालाहालमरीचिकासहचरः कण्ठस्थले धूर्जटे:
मध्ये फालतलं वृगन्तरुदयधूम्यांकुरश्रीकरः ।
मौलौ दिव्यधुनी मिलत्तरणिजाकल्लोलशङ्कावहो
मुग्धे देवि दृगश्चलस्तव मुहुर्माखर्यमाविष्क्रियात् ॥४१॥
कार्ये हेतुगतो गुणस्समुद्गे दित्युच्चकैर्भाषिणः
पश्यत्पादमताध्वजांघिकधियो मिथ्यागिरः कल्पयन् ।
नैत्याद्वैतवदावदोऽपि हृदि यो रागं विधत्ते विभोः
 
सोऽयं देवि वृगञ्चलस्तव चिरं सौख्यानि देयान्मम ॥४२
मारच्छद्मवनेचर: श्रुतिपुटीरन्ध्रापदेशावटं
 
सञ्छन्नं विरचय्य यच्छविमृषा तापिञ्छनव्यच्छदैः ।
पश्यत्फालमनोभिधानहरिणं चर्कत सद्यो वशे
सौभाग्यं शफरीदृशो दिशतु मे सोऽयं कटाक्षांकुरः ॥४३॥
यच्छायाभररूपनीलपटिकामास्तीर्य गण्डस्थला-
भोगाकारवणिक्पथे स्मरवपुस्सांयात्रिका विष्कृताः ।
द्योतन्ते परभागमेत्य हसितज्योत्स्नात्ममुक्तालयो
मीनाक्षि त्वदपांग एष तनुतां मेदस्विनों मे मुदम् ॥
 
"
 
कार्ये कारणगुण: समुदयेत् इति पश्यत्पादस्य अक्षपादस्य मतानु-
यायिनः मताध्वजां धकधि: ! नैल्याद्वैतं वेवलं नैव्यं तद्वदावद :
तत्प्रकटयिता हगंचल: प मेश्वर रागं रक्तिमानं अनुरागं
नीलाद्रक्तमुत्पद्यते इति नैयायिकमतविरुवम् ॥ ४२ ॥
 
विधत्ते ।
 
पश्यत्फाल: निटिलाक्षः शंभुः ॥४३॥