This page has not been fully proofread.

पश्चमः सर्गः ।
 
अभिवन्द्य मोननयनामसावभूत्
 
कवितात्मना परिणतात्मभक्तिकः ॥३५॥
 
कर्णोपान्तमणीकृतैन्दवकलानिर्यत्ननिर्यत्सुधा-
कल्लोलावलिमेलन द्विगुणितप्रत्यग्र शैत्योदयः ।
कारुण्यामृतवाहिनीनवपरीवाहप्रियंभावुको
मीनाक्ष्याः कुशलानि कोरकयताम्मुग्धः कटाक्षांकुर: ॥
 
ताटङ्कस्य परिस्फुरत्परिसरे तावृक्षरत्नत्विषो
मार्ताण्डान्तिक खेलमानयमुनामाहात्म्यपाटच्चरः ।
 
शोणाश्माहितशाणकोणविलसन्मारास्त्रशङ्काकरो
मीनाक्षि त्वदपाङ्ग एष भवतान्मोदाय खेदापहः ॥ ३७॥
प्रेमाधिक्य तद्विपाननरदप्रोत्कीर्णताटङ्कक-
प्रालेयधुतिमण्डले प्रकटयन्त्रायः कलङ्कश्रियम्
व्यातन्वन्नपि चादरादभिसरदृशं वियामा भ्रमं
 
मीनाक्ष्याः करुणाकटाक्षमहिमा मोहापहो जायताम् ॥
 
बन्दीकृत्य बलाद्यवीय रुचिभिर्लोलावतंसच्छलात्
नीलाम्भोरुहमञ्जरीविनिहिता कर्णाप्रदुर्गावले ।
वल्गल्लोचनखञ्जरीटयुगलीवालाङ्कुर श्रीकरः
पर्याप्तं नयनाञ्चलो दिशतु मे भाग्यं सुमीनाक्षि ते ॥
 
चिल्ली कैत वपुष्पसायकधनुर्वल्लीगुणः कामजि-
च्चेतः पेटकवतिधैर्यमणिसंमोषक्रियाकुश्विका ।
 
65
 
"
 
9
 
मार्ताण्डस्य पुत्री यमुना। शोणाश्मना पद्मरागरत्नेनाहितः कृतः
शाण: निकषोपल: तस्य कोणे विलसतः तीक्ष्णतासंपादनाय इतस्ततः
 
"
 
चलतः मारास्त्रस्य शंकाकरः ॥३७॥