This page has not been fully proofread.

64
 
श्रोशङ्कराभ्युवथै
 
महिमाम्बुराशिलवमप्यजानतो
मम जायते तव गुणस्तुतिस्पृहा ।
मनसः प्रवृत्तिमयि मन्मथद्विषन्
नहि कोऽपि वारयितुमीश्वरो भवेत् ॥३१॥
 
अथवा गिरीश मम वाग्जगन्मयं
न भवन्तमर्चयितुमक्षमा भवेत् ।
किमु मीलतापि विशिखः प्रचोदितो
धरणीशरव्यमपराद्धयत्यये ॥३२॥
 
त्रिजगधुरन्धर कृपानिधे भवान्
अवतादमुं जनमनन्यजीवितम् ।
इति कन्दलत्प्रसदबाष्पगद्गदं
 
बहुधा निगद्य गिरिजालयं ययौ ॥ ३३ ॥
 
अथ तत्र सडकलकाधिरोहिणो
द्रविडप्रबन्धपरदेवतात्मनः ।
कलशीकुमारकृतसूत्रवर्त्मना
कवयन्व्यजेट कतिचित्कवीश्वरान् ॥३४॥
 
अधिहेमपुष्करिणि क्लृप्लभज्जनो
भसितत्रिपुण्डुपरिदीपितालिकः ।
 
>
 
यस्य भूमिरेत्र शव्यं शरलक्ष्यं स नेत्रे निमीत्त्रापि शरुं प्रचोदयितुं
धरण रूपं श व्यं वेद्धु प्रचोदितः शरः वेद्धारं अपराधिनं
स्वयं भूमौ पतन् शरः लक्ष्यं प्राप्नोत्येव ॥३२।
 
प्रभवति ।
न करोति ।
 
O
 
द्रविडप्रबन्धाः तमिल्भाषागताः ग्रन्था एव परदेवतेति आत्मा
मनो येषां तान् संघफलकं शङ्गप्पत्रकै इति प्रसिद्धं, कलशीकुमार
कृतसूत्रवत्मना अगस्त्यसूत्रानुसारेण तमिलभाषायां कवयम् ॥३४॥