This page has not been fully proofread.

पश्चमः सर्गः ।
 
इति देवदेवनुतिपावनाननो
 
यतिशेखरो यतमना इतस्ततः ।
 
अतिपावनानि परितस्तपोवना-
न्यनघा नदीरभिययौ सरांसि च ॥२६॥
 
-
 
मधुरागमनम्
 
जनता हि तत्र कृतमालिकापगा-
जलपानजातजडिमापनुत्तये ।
रसनाञ्चले मधुरसं क्षिपत्यसौ
 
मधुरामवापस्थ तामनुत्तमम् ॥२७॥
 
कृतमालिकाकृतजलावगाहनः
 
क्रमश: क्रिया: समुचिता: समाचरन् ।
शतशः प्रणम्य शशिखण्डमण्डनं
मुखरोऽजनिष्ट मुनिशेखरो मुदा ॥ २८ ॥
 
भगवन्नवाङ्मनसगोचरानहो
 
फणितुं भवद्गुणगणानशेषतः ।
चतुराननो न चतुराननोऽप्यतः
 
प्रभवेयुरीश कथमीदृशा जनाः ॥ २९ ॥
 
जगदीश तावकगुणांशकीर्तना-
दपि भाग्यभाग्भजति विश्ववन्द्यताम् ।
जलधेः कियन्त्यपि जलान्युपादधत्
जलदो न कि व्रजति कीर्तनीयताम् ॥ ३०॥
 
मधु सो नारङ्गः अम्लं फलम् ।
जडिमानमपोहित अम्लोपयोगः ॥२७॥
 
63
 
मधुररंसाधिकवस्तुसेवनेन जातं