This page has not been fully proofread.

62
 
श्रीशङ्कराभ्युदये
 
अपि चैतदीश भवतो व्यतिक्रमो
 
विपथान्पितंव ननु शास्ति बालकान् ॥ २१ ॥
 
त्रिजगज्जनिस्थितिविनाशकल्पना-
धृतनैपुणीक नयनाञ्चलस्य ते ।
कियदस्ति मत्कभरणं कृपानिधे
 
किमुपेक्षसेऽतिसुलभं महद्यशः ॥२२॥
 
अथवा भरो भवतु मत्करक्षणं
करणीयमेव तदपि त्वया विभो ।
महतां परोपकृतये परिश्रमः
 
कुरुते महोत्सव इवाधिक मुदम् ॥२३॥
 
अयि विश्वरक्षणविधानदीक्षिते
 
त्वयि नाथनं मम तु बालचापलम् ।
जनके दिशत्यपि फलादिकं क्रमात्
ननु रुद्यते मम ममेति बालकैः ॥ २४ ॥
 
बहुभिः किमत्र वचसां प्रपञ्चनैः
 
अहमर्थये त्वदभयं सकृन्नतः ।
अविता तथाऽपि भविता न चेद्भवान्
भवतो व्रतक्षतिरये न किं भवेत् ॥ २५ ॥
 
विपथानां सत्पथानानयनमेव, दीनोपेक्षणमेव तव व्यतिक्रमः
मर्यादोल्लङ्घनरूपो दोषो भविता ॥२१॥
 
त्वत् त्वत्तः अभयं अर्थये । सकृन्नत: सकृदेव प्रपन्नायेति भवतो
वचने प्रतिपत्त्या । व्रतक्षतिः- अभयं सर्वभूतेभ्यो ददाम्येतदुव्रतं ममेति
गृहीतस्य व्रतस्य भङ्गः ॥२५॥