This page has not been fully proofread.

पञ्चमः सगः ।
 
श्रुतिमौलयोऽपि न विकुण्ठशक्तयः
प्रभवन्ति यस्य महिमानुवर्णने ।
तदशेषनायकभवत्पदाम्बुजं
 
कथय स्तवानि कथमल्पधीरहम् ॥१७॥
 
स्तुतिरुच्यते गुणगणस्य कीर्तनं
 
घटते न तद्भवति निर्गुणे विभौ ।
असतस्तु केवलममुष्य कीर्तनं
 
सरसायनं कथमिव स्तवोऽस्तु ते ॥१८॥
 
शरणागतं चरणपद्मयोरमुं
 
परिपालयेश कृपयैव केवलम् ।
समवेक्ष्य किञ्चिदुपकारमात्मनः
 
कुरुते महान्न खलु दीनरक्षणम् ॥ १९ ॥
 
यदि नाथ दीनविषया भवद्दया
 
तदीप्सितं मम करस्थितं भवेत् ।
मदपेक्षया किमपरोऽस्ति दैन्यभुक्
 
भवनत्रयेऽपि ननु वेत्ति तद्भवान् ॥२०॥
॥२०॥
 
सुकृतं त्वया न कृतमित्युपेक्षसे
यदि मां गतैव तव दीनबन्धुता ।
 
61
 
विकुण्ठशक्तयः कुण्ठितशक्तयः ॥१७॥
 
गुणिनिष्ठगुणाभिधानं स्तवः । स निर्गुणे न घटते । असतः
अविद्यमानस्य अमुष्य गुणगणस्य । सरसायनं, सरसं अयनं सारस्यस्य
सन्तोषस्य अयनं वा ॥ १८॥