2023-02-27 05:44:43 by ambuda-bot
This page has not been fully proofread.
-4-
अद्य कुंभघोणनगरविराजमानदिव्यश्रीकाञ्ची मकोटिपीठाधिपै:
देववाण्यभ्युदयबद्धदीक्षै: श्रीमच्छङ्करयतिसा भौम: श्रीरङ्गस्थ-
श्रीवाणीविलासमुद्रणालयाध्यक्षस्य गुरुभक्त खामणे: श्रीबाल-
सुब्रह्मण्यार्यस्य प्राचीनग्रंथमुद्रणपरिश्रममन्यादृशमभिनन्द्य स्वीय
सरस्वतीनिलयात् प्रदत्तेषु ग्रन्थरत्नेषु एकतमात् श्रीशङ्करा-
भ्युदयकोशात् सप्तमाष्टमसर्गों समुपलभ्य तमिमं भागं सांप्रतं
सहृदयायां प्रकाशयितुमुपक्रान्ता वयं लोकगुरावस्मिन् कार्तज्ञ्यं
वहामः ।'
एतदन्वेषणे तत्प्रतिकरणे शोधने चोपकृतवन्तौ मन्मित्रवरौ
तिरुपतिस्थकेन्द्रीयसंस्कृत विद्यापीठप्राचार्य श्री ति. गो. अनन्त-
सुब्रह्मण्यशर्ममहोदयः मधुरा कामराज सर्वकलाशालासंस्कृत-
विभागाध्यापक श्री ल. वीरराघवशर्म महोदयश्च तयोः कृतज्ञतां
निवेदये ।
"
नाहं साहित्यशास्त्रप्रवीण: । परं कविभिरन्यैरचुंबिता:
बहू: कल्पना: अत्रानुभवामि । व्याख्याता श्रीरामकृष्णसूरिणा
बहुपकृतं मम पाठशोधने ।
कर्ता चास्य काव्यस्य, श्रीराजचूडामणिदीक्षितः । चोल-
राजधानी तञ्जापुरीं शासितवतः रघुनाथनायकभूपस्य (१६१४-
१६३३ क्रि) सभामयं अलञ्चकारेति इतिहासविदः । महाकवे-
रस्य पितामहः लक्ष्मीभवस्वामिभट्ट अद्वैतचिन्तामणे: कर्ता ।
पिता चास्य परमशांभवस्य विद्वदग्रेसरस्य श्रीमदप्पय्यदीक्षि-
तेन्द्रस्य श्वशुर:, तुण्डीरमण्डलगतसूरसमु ग्रहारवासी षड्-
दर्शनीपारदृश्वा सर्वतन्त्रस्वतन्त्रः श्रीनिवार दीक्षित । सूरप्प-
नायकेन तत्प्रदेशाधिपेन स्वावासं प्रति तस्य शुभागमनं प्रतीक्ष
माणेन दिवापि गजानामुपरि दीपधारिणः कश्चित्पुरतो विधाय
-