This page has not been fully proofread.

60
 
श्रीशङ्कराभ्युदये
 
नवरत्नकोशगतनन्दकप्रभा-
शतमन्युचापशतचित्रिताम्बरम् ।
रसमानसारसनसारसावली-
लसमानमङ्गलनितम्ब सैकतम् ॥१३॥
 
जघनस्थलप्रतिहतिद्विधाकृतां
इव रामणीयकतरङ्गिणीझरीम् ।
विदधानमूरुयुगलं सुराङ्गना-
कृतिमातृकाफलकमब्जजन्मनः ॥१४॥
 
मुनिकुञ्जरस्य ववधेऽधिमानसं
प्रमदाम्बुरा शिलहरीभरैश्विरम् ।
मुमुदे च लोचनचकोरपत्रिणा
 
पुरतः स्फुरत्युरुतमोहरे विधौ ॥ १५ ॥
 
अथ माधवं शुभतमालकाननं
 
महनीयगन्धबनमालिकोज्ज्वलम् ।
उपलभ्य कोकिलयुवेव कन्दलन्-
मधुर स्वर : समजनिष्ट देशिकः ॥ १६ ॥
 
रसमानं शब्दायत् ॥ १३॥
 
ब्रह्मा
 
माणव-
भगवत ऊरुयुगलात् ऊवंशी जाता नरनारायणावतारे ।
तदेव ऊरुयुगलं अप्सरस्सृष्ट्यै मातृकाफलकत्वेन स्वीचकार ।
कानां अक्षररेखाशिक्षणार्थं पुरतः स्थापितं कृष्णवर्ण फलकं मातृकाफलकं,
यत्र आचार्य अ आ इति खटिकया विलिख्य माणवकाय अक्षररेखालेखन-
प्रकारं दर्शयति ॥१४॥
 
प्रमदः सन्तोषः । अधिमानसं मनसि मानससरसिं च । उरुत-
मोहरो विधुश्चन्द्र इव भगवान् भाति । यं दृष्ट्वा चकोरो लोचनरूपः
मुमोद ॥१५॥