This page has not been fully proofread.

पञ्चमः सर्गः ।
 
रमणीयगण्डतलकान्तिवीचिका
विहरन्मणीमकरकुण्डलोज्ज्वलम् ॥८॥
 
वदनाम्बुजातबिसवल्लरीभवद्-
गलमूललग्नमृगनाभिकर्दमम् ।
उपलालयन्तमनिशं भुजान्तरे
कमलासहोदरतयैव कौस्तुभम् ॥ ९॥
 
जठरान्तरावसथ विष्टपत्रयो-
प्रकटी क्रियापरवलित्रयाञ्चितम् ।
निजनाभिपङ्कजमधुव्रतावली-
मतिदायिरोमलतिका मनोहरम् ॥ १०॥
 
विधिना जगत्त्रितयसृष्टये मृदं
हरता कृतेन सुषिरेण हारिंगा ।
नवरोमराजिलतिकालवालभू-
वलयेन नाभिकुहरेण शोभितम् ॥ ११॥
 
दधतं पराक्रमजितेर्मृगाधिवैः
उपदीकृतामिव वलग्नपष्टिकाम् ।
जलदभ्रमोपगतविद्युदुज्ज्वल-
त्तपनीयचेलविलसत्कटीतटम् ॥ १२ ॥
 
59
 
रमणीयतैव सुधाब्धिः ॥ ८॥
 
वदनं पद्मं, पद्मवल्ली गलं, कर्दम: कस्तूरिका । कौस्तुभोऽपि
अमृतमथनकाले लक्ष्म्या सहोत्पन्नः ॥९॥
 
उपदीकृतां उपायनीकृताम् । वलग्नं देहमध्यभागो यष्टिकेव ॥१२