This page has not been fully proofread.

58
 
श्रीशङ्कराभ्युदये
 
मकुटारुणोपलमरीचिकातप-
च्छुरणानिशस्फुटितवक्त्रपङ्कजम् ॥ ४॥
 
चलचूर्णकुन्तलमुधानिशीथिनी-
सुदृढोपगूढनिटिलार्धचन्द्रकम् ।
 
करुणांबुपूरित दृगब्धितीरभू-
वनमालिकायतमनोज्ञचिल्लकम् ॥५॥
 
श्रवणावतंसितसितेतराम्बुज-
भ्रमदानशौण्डनिजलोचनाञ्चलम् ।
 
वदनारविन्दनिबिरीषसौरभ-
ग्रहणोदयत्कुतुक्रदीर्घनाशिकम् ॥ ६॥
 
रसनाग्रजाग्रद रविन्दभूवधू-
नवमौक्तिकाभरणदन्तपङ्कजम् ।
कलशाम्बुराशितनयोष्ठमाधुरी-
गरिमैकसाक्षिरसनावल्लभम् ॥ ७॥
 
वदनारविन्दरमणीयतासुधा-
जलराशिविद्रुमलतायिताधरम् ।
 
कैशिकं केशसमूहः । मकुटगतस्य अरुणोपलस्य पद्मरागस्य यो
मरीचिकातपः सूर्यरश्म्युत्थ: तापः तस्य दुरणेन मिश्रणेन स्फुटितं वक्त्र-
पङ्कजं यस्य ॥४॥
 
मुधानिशीथिनी मिथ्या रातिः । चिल्लके भ्रुधौ ॥५॥
 
निबिरीषं निबिडं यत् वदनार विन्दसौरभं तद्ग्रहणाय उदय-
तकुतुका दीर्घनासिका यस्य ॥६॥
 
अरविन्दभूवधूः सरस्वती । कलशांबु राशितनया लक्ष्मीः ॥७॥