This page has not been fully proofread.

पञ्चमः सर्गः
 
अनन्तशयनक्षेत्रगमनम्
 
अथ वेशिकेन्दुरधिगत्य तैथिकः
शनकैरनन्तशयनाभिधं स्थलम् ।
समवेक्षताव सरसीरुहेक्षणं
 
श्रुतिचूलिकासमधिगम्यवैभवम् ॥ १॥
 
स्वभुजार्ग लालवणिमैकवाञ्छ्या
 
शयनीयतामुपगतं फणाभृतम् ।
अतसीसमद्युतिभिरङ्ग कान्तिभिः
 
कलयन्तमिन्द्रमणिकुट्टिमोपमम् ॥२॥
 
स्मरवरिशेखरसुधाकरे या
मकुटीभवन्तमिव भानुमण्डलम् ।
विहितं किरीटमरुणाश्मकन्दलै :
 
विदधानमात्मशिरसा विभूषितम् ॥३॥
 
स्फुटदुत्पलोदरदलोपमाङ्गक-
स्फुरदंशुबृन्दमतिदायिकैशिकम् ।
 
श्रुतिचूलिका उपनिषत् । तैथिकाः शिष्याः ॥१॥
 
भुजावर्गलाविव, तयोर्लवणिमा लावण्यम् । इन्द्रमणि: नील-
मणिः ॥२॥
 
"
 
चन्द्रस्य परमेश्वर शिरोऽधिरोहणेन यत् महत्वं तत्प्राप्नवानीति
ईष्यंया । अरुणाश्म पद्मरागमणिः ॥३॥