This page has not been fully proofread.

चतुथः सर्गः ।
 
मध्ये ब्रह्माण्डभाण्डोदरकुहरमसावेत्य दुःस्थामवस्थां
स्त्यानस्त्यानो मदीयं दलयतु दुरितं श्रीनृसिंहाट्टहासः ॥
 
55
 
मध्येऽवानद्धवातन्धय गुणवलयेन्धानमन्थानभूभृ-
न्मन्थप्रक्षोभिदुग्धोदधिधनलहरीस्फारनादावघोरः ।
कल्पान्तोन्निद्ररुद्रोत्सवभवडमरुध्वानबद्धाभ्यसूयो
घोरोऽयं कर्णघोषः क्षपयतु नहरेरंहसां संहति वः ॥८०॥
 
क्षुन्दानो मंक्षु कल्पावधिसमयसमुज्जृंभदम्भोदगंभ-
स्फूर्जद्दंभोळिसङ्घस्फुरदुरुरटिता खर्वगर्वप्ररोहान् ।
क्रोडाकोडेन्द्रघोणासरभसविसरद्घोरघुर्पूरवधीः
गम्भीरस्तेऽट्टहासो हरहर नृहरे रंहसांहांसि हन्यात् ॥
 
प्रमथपरिबृढो रुद्रः । स्त्यानस्त्यान: अभीक्ष्णं शब्दसन्तानवान्,
मध्ये ब्रह्माण्डभाण्डोदरं ब्रह्माण्डमध्ये दुस्स्थां अवस्थामेत्य कृच्छ्रण
विश्रान्तावस्थिति प्राप्य, ब्रह्माण्डमध्यं भित्वा बहिनिर्गत्य दूरं गत्वा
कृच्छ्रेण समाप्ति प्राप्य, तावत्पर्यन्तं व्याप्तवान् अट्टहासः ॥ ७९ ॥
 
मन्थानभूभृत् सन्दर: मध्येऽवानद्धेन वातन्धयो वासुकि तद्पो
गुणवलय: रज्जुबन्धः, तेन इन्धान: मन्थानभूभृत् स एव मन्थः, तेन
प्रक्षोभितो दुग्धोदधिः, तस्य घना लहरी, तस्याः स्फार : नाद इव अव-
घोरः ।
स्थितिकाले निद्राणो रुद्रः, तस्य कृत्याभावात् । प्रलयकाले
कल्पान्ते उन्निद्र: रुद्रः, तदत्सवभवो डमरुध्वानः तेन बद्धाभ्यसूयः,
नृरुत्थितः यो घोषः तस्याघातेन जातो यः अस्मत्कर्णदेशे घोषः । ८० ॥
 
"
 
मंक्षु शोघं कल्पावधिसमये प्रलये समुज्जृम्भतां अम्भोदानां
संवतख्यानां गुम्भे समूहे स्फूर्जतो ध्वननो दंभोलिसङ्घस्य उरुगतानां
वज्रनिर्घोषाणां अखर्वान् अनल्पान् गर्वप्ररोहान् क्षुन्दान: चूर्णयन् ।
क्रीडाक्रोडस्य यज्ञवराहरूपेणावतीर्णस्य भगवतः घोणातः सरभसं निःसरतां
घुघूरवाणां या श्रीः सा यस्न् िसः रंहसा वेगेन अंहांसि पापानि हन्यात् ॥