This page has not been fully proofread.

श्रीशङ्कराभ्युदये
 
किमर्थमेको गिरिगह्वरेऽस्मिन् वाचंयम त्वं वससीति शश्वत् ।
केनापि पृष्टोऽत्र किरातयूना प्रत्युत्तरं प्रागहमित्यवोचम् ॥७२
 
54
 
आकण्ठमत्यद्भुतमर्त्य
मूर्तिः कण्ठीरवात्मा परतश्च कश्चित् ।
मृगो बनेऽस्मिन्मृगयो वसन्मे भवत्यहो नाक्षिपये कदापि ॥७३॥
 
इतीरत्येव मयि क्षणेन वनेचरोऽयं प्रविशन्वनान्तम् ।
निबध्य गाढं नृहरि लताभिः पुण्यैरगण्यं निदधे पुरो मे ॥७४॥
 
महर्षिभिस्त्वं मनसाध्यगम्यो वनेचरस्येश कथं वशेऽभूः ।
इत्यद्भुताविष्टहृदा मयाऽसौ विज्ञाप्यमानो विभुरित्यवादीत् ॥
 
एकाग्रचित्तेन यथाऽमुनाहं ध्यातस्तथा धातृमुखैर्न पूर्वैः ।
नोपालभेयास्त्वमितीरयन्मे कृत्वा प्रसादं कृतवांस्तिरोधिम् ॥७६
 
आकर्ण्य तां पद्मपदस्य वाणीमानन्दमग्नैरखिलैरभावि ।
जगर्ज चोच्चैर्जगदण्डभाण्डं भूयोऽपि भूम्ना दलयन्नृसिंहः ॥७७
 
तध्वानेन द्रुतशिथिलितध्यानयोगो मुनीन्दुः
पश्यन्त्र नरमृगवपुः प्राक्तनं धाम दिव्यम् ।
प्रत्यासीदत्प्रसृतियुगलं प्राप्तभक्तिप्रकर्ष
प्रत्यग्रोद्यत्पुलकमुकुलं प्रास्तुतादस्स्तुताय ॥७८॥
 
कल्पान्तोज्जृंभमाणप्रमथपरिवृढप्रौढलालाटवह्नि
ज्वालालीढविलोकीज नितखटखटध्वानधिक्कारधुर्यः ।
 
प्राक्तनं पुरातनं अनादि । प्रत्यासीदत् अन्योभ्यं सङ्घटमानं प्रसृति-
युगलं अञ्जलिः, निकुब्जपाण्योथुंगलं, यस्मिन्कर्मणि, तथा अद: स्तुताय,
अमुष्य स्तवनाय ॥७८॥