This page has not been fully proofread.

चतुर्थः सर्गः ।
 
परोपकारं न विनास्ति किश्चित्प्रयोजनं ते विधुतैषणस्य ।
अस्मावृशाः कामवशास्तु युक्तायुक्ते विजानन्ति न योगिवर्य ॥
जीमूतवाहो निजजीवदायी दधीचिरप्यस्थि मुदा ददानः ।
आचन्द्रतारार्कमपायशून्यं प्राप्तौ यशः कर्णपथं गतौ हि ॥६५॥
मूर्धाभिषिक्तस्य शिरःकपालं मुनीशितुर्वा मम सिद्धिहेतुः ।
आद्यं पुनमें मनसाव्यलभ्यं ततः परं तत्रभवान् प्रमाणम् ॥६६॥
 
तथेति तस्मिन्दयया मुनीन्दाबात्मानमात्मन्यथ योजयित्वा ।
समाधिलीने सति हा हताशश्वकर्ष कोशाच्चदुलां कृपाणीम् ॥
 
5.3
 
समागतस्तत्र यदृच्छ्याथ सनन्दनो वीक्ष्य दुरीहचेष्टाम् ।
सस्मार सद्यः प्रणतातिहारि प्रह्लादवत्स्वं परमं महस्तत् ॥६८
 
आविष्कृताविर्भवनः क्षणेन दंष्ट्रांकुरप्रोतदुरीहदेहः ।
नृत्यन्नतानीन्नृहरिविदीर्णद्युपट्टणाट्टालकमट्टहासम् ॥६९॥
 
प्रह्लादवथ्यो भगवान् कथं वा
प्रसादितोऽयं नहरिस्त्वयेति ।
सविस्मयैः स्निग्धजनंः स पृष्टः
 
सनन्दनः सस्मित मित्यवादीत् ॥ ७० ॥
 
पुरा किलाहोबिलभूधराये पुण्यं समाश्रित्य किमप्यरण्यम् ।
भक्तक वश्यं भगवन्तमेनं ध्यायन्ननेकान् दिवसाननैषम् ॥७१ ॥
 
हताशः कुत्सिताशो दृष्टाशो वा ॥६७॥
 
हिरण्यकशिपुना शस्त्र उद्यते प्रह्लादः नृसिंह सस्मार । तथा
 
कापालिकेन खड्ग उद्यते अयं सस्मार ॥६८॥