This page has not been fully proofread.

52
 
श्रीशङ्कराभ्युदये
 
ये प्रत्यभिज्ञामतपारविज्ञा: धन्यास्तु ते प्राग्विदितां गुरूक्त्या ।
सैवाहमस्मीति समाधियोगात् त्वां प्रत्यभिज्ञाविषयं विदध्युः ॥
आधारचक्रे च तदुत्तरस्मिन् आराधयन्त्यैहिकबोधलुब्धाः ।
उपासते ये मणिपूरके त्वां वासस्तु तेषां नगराद्वहिस्ते ॥ ५९॥
 
अनाहते देवि भजन्ति ये त्वां अन्तः स्थितिस्त्वन्नगरे तु तेषाम् ।
शुद्धधाज्ञयोयें तु यजन्ति तेषां क्रमेण सामीप्यसमानभोगौ । ६०
 
सहस्रपत्रे ध्रुवमण्डलाख्ये सरोरुहे त्वामनुसन्दधानः ।
चतुर्विधैक्यानुभवास्तमोहः सायुज्यमम्बाञ्चति साधकेन्द्रः ॥६१
 
श्रीचक्रषट्चक्रकयोः पुरोऽथ श्रीचक्रमन्योरपि चिन्तितैक्यः ।
चक्रस्य मन्त्रस्य ततस्त्वयंक्यं क्रमादनुध्यायति साधकेन्द्रः ॥ ६२
कापालिकाय सिद्धिदानम्
 
इत्यर्चयित्वा गिरिजां वचोभिः एकान्तमाश्रित्य वसन्तमेनम् ।
कालायसाकल्पितघोरशूलः कापालिकः कश्चिदिदं बभाषे ॥६३ ॥
 
तदिदन्त । वगाहिज्ञानेन, सा गुरुवाक्येन ज्ञाता परमेश्वर्येवाहमस्मीति
प्रत्यभिज्ञाविषयं विदध्युः ॥५८ ॥
 
मूलाधारे स्वाधिष्ठाने चोपासनेन ऐहिकसुखलाभ, मणिपूरके त्वल्लोक-
बहिर्वासं, अनाहते उपासनेन सालोक्यं, विशुद्रौ सामोप्यं, आज्ञायां सारूप्यं,
सहस्रारे सयुज्यं चाप्नोति । चतुविधक्यानुभवेन तस्य मोहनाशः ।
१. नवोन्यात्मक श्रीचक्रस्य पिण्डगतमूलाधा राबात्मक षट्चक्रस्य चैक्यं,
२. श्रीचक्ररय पञ्चदशक्षियत्मिक मन्त्रस्य वैक्यम्, २. श्रीचक्रस्य देव्या-
चैत्रयम् ४. श्रीविद्याया देव्याश्च॑क्यं, इति चतुविधमक्यम् ॥६२ सा
 
श्रीशैले काश्यां वा कापालिकसङ्गमी वर्ण्यते ग्रन्थान्तरेषु ॥६३॥
 
"