This page has not been fully proofread.

चतुर्थः सर्गः ।
 
अम्बोपचारेष्वधिहृत्तु षष्टि शुद्धयाज्ञयोः शुद्धिदमेकमेकम् ।
सहस्रपद्मे द्वितयं तु साधु तन्वन्ति धन्यास्तव तोषहेतोः ॥५४॥
आराधनं ते बहिरेव केचित् अन्तर्बहिश्चैकत
मेऽन्तरे वा ।
अन्ये परे त्वम्ब कदापि कुर्युः नैव त्वदेक्यानुभवैकनिष्ठाः ॥५५
 
अष्टोत्तरविंशति याः कलानां अर्ध्याः कलाः पञ्च निवृत्तिमुख्याः ।
तासामुपर्यंब तवांघ्रिपद्मं विद्योतमानं विबुधा भजन्ते ॥५६॥
कालाग्निरूपेण जगन्ति दग्ध्वा
 
सुधात्मनाssप्लाव्य समुत्सृजन्तीम् ।
ये त्वामवन्तीममृतात्मनैव
 
ध्यायन्ति ते सृष्टिकृतो भवन्ति ॥५७ ॥
 
51
 
.
 
क्रियमाणे उपचाराणां चतुष्षष्टौ, हृदये षष्टिः, विशुद्धौ कण्ठे
एकं आज्ञायां एकं, सहस्रदले पद्म द्वादशान्तस्थे द्वाविति स्थानभेदः ॥
 
केचिरकुलाचाररता बहि: समाचाररता: अन्तः मिश्राचारा
अन्त बहिश्च आराधनं कुर्वन्ति । उत्तमाधिकारिणस्तु प्रशाम्तेत राखिल-
बाह्याभ्यन्तरार्थानुभवाः, त्वदैक्यानुभवमहिम्ना चिदानन्दरूपा निर्व्या
पारा: तिष्ठन्ति ॥५५॥
 
9
 
अमृताद्या: षोडश सोमकला: तपिन्याद्या द्वादश सूर्यकला:
धूमाचिराद्या दश वह्निकलाः एवं कलाः अष्टत्रिंशत् । ताभ्योऽपि अर्ध्याः
कलाः पृथिव्यादिभूतपञ्चककलाः पञ्च निवृत्ति: प्रतिष्ठा विद्या शान्तिः
शान्त्यतीतेति । तासामुपरि सहस्रारपद्मे तवांघ्रिपद्मं विद्योतते ।
महीं मूलाधारे कमपि मणिपूरे हुतवहं
 
"(
 
स्थितं स्वाधिष्ठाने हृदि मरुतमाकाशमुपरि ।
मनोऽपि ग्रूमध्ये सकलमपि भित्वा कुलपथं
 
सहस्रारे पद्म सह रहसि पत्या विहरसे ॥ "
 
इति सौन्दर्यलहर्यां शङ्करभगवत्पादाः ॥५६॥
 
जगत्प्रलयसृष्टिस्थितिकारिण्या ध्यानेन सृष्टिशक्तिः जायते ॥१७॥