This page has not been fully proofread.

चतुर्थसर्गेभ्यः १८९ श्लोकघटितेभ्य: १६२ श्लोका माधवेनो-
पात्ताः । इतरेभ्यः स पञ्च । श्रीमाधवेन स्वसंकलने
मूलतयोपात्तमिदमिति परमोपादेयत्वमाकलय्य तस्य प्रकाश-
नाय प्रवर्ते ।
 
-
 
मनोरमं रसिकजनोपजीव्यमिदं शङ्कराभ्युदयं नाग काव्यं
अष्टसर्गात्मकम् । अडयारग्रन्थागारगतां तस्य सव्याख्यां
मातृकां सहृदयापत्रिकायां प्रकाशितपूर्वं मूलमात्रं चावलम्ब्य
सटिप्पणं एतत्प्रकाश्यते । अडयारग्रन्थागारगतायां मातृकायां
मूलेन सह व्याख्या षष्ठं सर्गं यावदुपलभ्यते । व्याख्याता
चानं यक्षसंस्थान्वयसंभवो भारद्वाजः श्रीमद्वालकृष्णकृपालब्ध-
प्रतिभ: श्रीरामकृष्णसूरी आनन्दघनभारतीशिष्य इति व्याख्या-
मुखतः सर्गान्तोल्लेखतश्चावगम्यते । शब्दकल्पतरु:, आश्वलायन-
सूत्रानुसारी प्रयोगकल्पतरुः सूतसंहितासार: इत्यादयो ग्रन्था-
स्तत्प्रणीता इति व्याख्यारंभे तेनैव निरूपितम् । सप्तमोऽष्टमच
सर्गः सहृदयापत्रिकायां उपलब्धः ।
 
महाविदुषा रा. कृष्णमाचार्येण रायपेट्टे वी. कृष्णमाचार्य
महोदयसहकृतेन संपादिता सहृदया पत्रिका; यस्याः षष्ठवार्षिक
( १९१३ - १४) ७ - १० सञ्चिकासु प्रमादीशवर्षप्रकाशितासु अयं
सप्तमाष्टमसर्गात्मको भाग उपलभ्यते । तदन्वेषणे प्रवृत्तेन मया
तिरुपतिक्षेत्रस्थ श्रीवेङ्कटेश्वर सर्वकलाशालान्तर्गतप्राच्यविभाग-
संशोधनसंस्था ग्रन्थागारे महता प्रयासेन दृष्टा तस्याः पत्रिकायाः
पुराणी मातृका यस्यां संपादकमहोदयेत सप्तमाष्टम सर्गप्रकाश-
नावसरे प्राक्कथनाथ उल्लिखितो भाग इदानीं स्मरणा ।
 
9
 
"अत्यद्भुतवाग्विलासास्वादनीयमिदं काव्यं सर्गषद् पर्यन्त -
मेवास्माभिरधिगतं प्रकाशितं चेति ज्ञातचरमेव सहृदानाम् ।