This page has not been fully proofread.

श्रीशङ्करामदये
 
इतीरयन्त्रेव नृपस्य कार्य विशन्स साक्षात्कृतकामतन्त्रः ।
पद्यानि शृंगारपरिष्कृतानि शतं वदन्नेव पुनस्समागात् ॥४९॥
मूकाम्बिका क्षेत्रदर्शनम्
 
50
 
रम्योपशल्यं कृतमालसालरसालहिन्तालतमालतालैः ।
सिद्धिस्थलं साधकसंसदां तन्मूकाम्बिकाधाम पुनर्जगाहे ॥५०॥
 
उच्चावचानन्दजबाष्पमुच्चैः उद्गीर्णरोमाञ्चमुदारभक्ति ।
अम्बामिहापारकृपावलम्बां संभावयन्नस्तुत निस्तुलं सः ॥५१॥
 
पारेपराधं पदपद्ममस्सु षष्ट्युत्तरं ते त्रिशतं तु भासः ।
आविश्य वह्न चर्कसुधामरीचीन् आलोकवन्त्यादधते जगन्ति ॥
 
अन्तश्चतुष्षष्ट्युपचार भेदैः अन्तेवसत्काण्डपटीप्रदानैः ।
आवाहनाद्यैस्तव देवि नित्यमाराधनामादधते महान्तः ॥५३॥
 
‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒‒------------------
 
अमरुकशत कमिति प्रसिद्धानि ॥४९॥
 
परस्य ब्रह्मण आयुषि अर्ध, परार्धद्वयजीवी ब्रह्मा, पारेपराधं
परार्ध संख्थामतीत्य वर्तमानासु पदपद्माभ्यां निस्सन्तीषु भास्सु मध्ये
षष्ट्युत्तर त्रिशत संख्याका भास एव चराचराणि भासयन्ति । ताः वह्नि
अर्क सूधामरीचि चाविश्य आलोकं ददति । वह्नौ अष्टोत्तरशतं सूर्ये
षोडशोत्तरशतं चन्द्रे षटविंशहत्तरशतं किरणा: पिण्डाण्डब्रह्माण्ड -
प्रकाशकाः । भूमौ वह्निः अन्तरिक्षे सूर्यः तदुपरि नक्षत्रमण्डले चन्द्र इति
ब्रह्माण्डे, मुलाधारस्वाधिष्ठानामकाग्निखण्डे अग्निः, मणिपूरकानाह
ताख्य सूर्यखण्डे सूर्य: विशुद्धय ज्ञाख्य चन्द्रखण्डे
 
चन्द्रश्च पिण्ड ।ण्डे
 
प्रकाशकाः ॥५२॥
 
9
 

 
काण्डपटी जवनिका
पटीप्रदानः जवनि हाच्छादनैः
चतुष्षष्टिभिरुपचारैः ॥५३॥
 
अन्तेवसद्भिः सेवकैः क्रियमाणै: काण्ड-
संवृततया गुप्ततया क्रियमाणैः