This page has not been fully proofread.

चतुर्थः सर्गः 4
 
49
 
गोरक्ष एषोऽथ गुरोः प्रवृत्ति विज्ञाय रक्षन् बहुधाइस्य देहम् ।
निशान्तकान्तानउनोपदेष्टा नितान्तमस्याभवदन्तरङ्गः ॥४३॥
 
तत्रैकदा तत्वनिबोधनेन निवृत्तरागं निजदेशिकं सः ।
योगानुपूर्वीमुपदिश्य नित्ये यथापुरं प्राकृतमेव देहम् ॥४४॥
 
हन्तेदृशोऽयं विषयानुषंग: किचोर्ध्वरेतो व्रतखण्डनेन ।
कि नोदयेटिकल्बिषमुल्बणं तत्कृत्यं भवानेव कृती विवेक्तुम् ॥
 
इत्थं समाविष्कृतभावसेनं सनन्दनं शश्वदथाभिनन्द्य ।
अनुज्झितन्यायमविस्तृतं च शनैः समाभाषत भाष्यकारः ॥४६
 
यदोरितं वत्स हितोपदेष्टा तदेतदद्धा निगमस्तथापि ।
असङ्गिनो न प्रभवन्ति कामा हरेरिवाभोरवधूस
 
॥४७॥
 
वज्त्रोलियोगः प्रतिभूः स एष वत्सावक णित्व विपर्यंये नः ।
चिरं विचारेण कृतं श्व एव समागमिष्याम्यथवा परश्वः ॥४८॥
 
निशान्ते प्रत्यूषे कान्तानां राजमहिषीणां नटनस्य नर्तनविद्यायाः
उपदेष्टा, तद्वेषेण राज्ञोऽन्तरंग: दिवा रात्रौ च मत्स्येन्द्रदेहं पक्षन् ॥४३॥
ऊर्ध्वरेतोव्रतखण्डनेन ब्रह्मचर्यव्रतखण्डनेन ॥४५॥
 
9
 
"
 
आभीरवधूनां गोपीनां सखा कृष्ण: तस्येव कामा न प्रभवन्ति
वशीकर्तुम् । व्यसनहेतवो न भवन्ति । "न मय्यावेशितंधियां काम:
कामाय कल्पते । भर्जिता क्वथिता घाना प्रायो बीजाय नेष्यते ।" इति
कृष्णे निहितमनसामपि विषये कामो नं प्रभवति । किमुत कृष्णविषये ॥
 
वज्रोलिर्नाम हठयोगः ऊर्ध्वरेतस्त्वसाधक: । अवकीर्णी ध्वस्तव्रतः
अगम्यागमनेन त्यक्तव्रतः । तद्रूपे विपर्यये व्यतिक्रमे प्रतिभूः दोष-
वारको घटकः ॥४८॥
 
7