This page has not been fully proofread.

48
 
श्रीशङ्कराभ्युदये
 
सौन्दर्य सौभाग्यनिकेतसीमाः परश्शता यस्य सरोरुहाक्ष्यः ।
स एष राजा मरुगाभिधान: शेते परासुः श्रमतो धरण्याम् ॥
प्रविश्य कायं तमिमं परासोर्नृपस्य राज्येऽस्य सुतं निवेश्य ।
योगानुभावात्पुनरप्युपतुं उत्कण्ठते मानसमस्मदीयम् ॥३६॥
अन्यादृशानामदसीयनानाकुशेशयाक्षी किलिकिश्चितानाम् ।
सर्वज्ञतानिर्वहणाय सोऽहं साक्षित्वमप्याश्रयितुं समीहे ॥३७॥
 
इत्यूचिवांसं यतितल्लजं तं सनन्दनः प्राह ससान्त्वनम् ।
सर्वज्ञ नैवाविदितं तवास्ति तथापि भक्तिर्मुखरं तनोति ॥ ३८ ॥
मत्स्येन्द्रनामा हि पुरा महात्मा गोरक्षमादिश्य निजांगगुप्त्यै ।
नृपस्य कस्यापि तनुं परासोः प्रविश्य तत्पट्टणमाससाद ॥ ३९ ॥
भद्रासनाध्यासिनि योगिवर्ये भद्राण्यनिद्राण्यभवन्प्रजानाम् ।
ववर्ष कालेषु वलाहकोऽपि सस्यानि चाशास्यफलान्यभूवन् ॥
विज्ञाय विज्ञाः सचिवा नृपस्य काये प्रविष्टं कमपीह दिव्यम् ।
समादिशन् राजसरोरुहाक्षीः सर्वात्मना तस्य वशिक्रियायै ॥४१
सङ्गीतलास्याभिनयादिमेषु संसक्तचेता ललितेषु तासाम् ।
स एष विस्मृत्य मुनिस्समाधि सर्वात्मना प्राकृतवद्वभूव ॥४२॥
 
अन्यादृशानामनन्यसाधारणानां अस्य बहूनां पत्नीनां किलि-
किञ्चितानां रोषाश्रुहर्षभीत्यादिभावसांकर्यस्य, साक्षित्वं असंगत्वेन
तदीक्षितृत्वं सर्वजताया: निर्वहणाय अपेक्षितम् ॥३७॥
 
मुखरं अप्रियवादिनं अनपेक्षितं असमये वदन्तम् ॥ ३८॥
भद्राणि मङ्गलानि अनिद्राणि जागरूकाणि ।
 
अभीष्टफलानि ॥४०॥
 
आशास्यफलानि