This page has not been fully proofread.

चतुर्थः सर्गः ।
 
वृषाकपायीवरयोः सपर्या वाचातिमोचारसयेति तम्वन् ।
मुनिप्रवीरो मृदितात्ममोहो मूकाम्बिकायाः सदनं प्रतस्थे ॥ २९
 
मूकाम्बिका क्षेत्रमार्गे मृतशिशो: उज्जीवनम्
 
अङ्के निधाय व्यसुमात्मजातं मोहाकुलौ हन्त मुहुः प्ररुद्य ।
तदेकपुत्रौद्वजदम्पती स दृष्ट्वा दयाधीनतया शुशोच ॥३०॥
 
अपारमश्वत्यथ शोकमस्मिन्नभूयतोच्चैरशरीरवाचा ।
जायेत संरक्षितुमक्षमस्य जनस्य दुःखाय परं दयेति ॥ ३१ ॥
 
47
 
आकर्ण्य वाणीमशरीरिणीं तामसाविति व्याहरति स्म तज्ज्ञः ।
जगत्वयी रक्षणदक्षिणस्य सत्यं तवैकस्य तु शोभते सा ॥३२॥
 
इतीरयत्येव यतौ द्विजातेः सुतस्सुखं सुप्त इवोदतिष्ठत् ।
समीप: सर्वजनीनमस्य चरित्रमालोक्य विसिष्मिये च ॥ ३३॥
 
परकायप्रवेशः
 
अथानिशाखेटवशादटव्यां मूले तयोर्मोहवशाद्गतासुम् ।
निरीक्ष्य मार्गे मरुतं नृपालं सनन्दनं प्राह स संयमोन्द्रः ॥ ३४ ॥
 
कल्कि: अश्वारूढः, अश्वरक्षणाय घासे दृष्टि: तस्य । शिवस्तु अवासे
पापनिर्हरणे कृताशयः ॥२८॥
 
वृषाकपी विष्णु शिवश्च तयोः पत्न्यौ वषाकपाय्यौ श्रीगौर्यो,
तयोः वरौ पती । मोचा कदली, अतिमोचारसया कदलीतोऽव्यति-
मधुरया ॥२९॥
 
मरुग: अमरुक इति माधवीयादौ । अनिशं आखेटस्य मृगयाया
वशाद्धेतोः ॥३४॥