This page has not been fully proofread.

46
 
श्रीशङ्कराभ्युदये
 
उत्तालकेतुः स्थिरधर्ममूर्तिः हालाहलस्वीकरणप्रवीणः ।
स रोहिणीशानिशचुंम्ब्यमाननिजोत्तमाङ्गोऽवतु
 
विनायकेनाकलिता हितापं निषेदुषोत्सङ्गभुवि प्रहृष्यन् ।
यः पूतनामोहनचित्तवृत्तिरव्यादसौ कोऽपि कलापभूषः ॥ २६ ॥
 
पाठीनकेतोर्जयिने प्रतीतसर्वज्ञभावाय दयैकसीम्ने ।
प्रायः ऋतुद्वेषकृतादराय बोधैकधाम्ने स्पृहयामि भूम्ने ॥ २७ ॥
 
व्यतीतचेतोविषयं जनानां विद्योतमानाय तमोनिहन्त्रे ।
भूम्ने सदाघासकृताशयाय भूयांसि मे सन्तुतमां नमांसि ॥२८॥
 
उद्गत: तालः केतुः ध्वजो यस्य,
रोहिणीशो वसुदेवः, इति बलरामः ।
हालाहलो विषं, रोहिणीशचन्द्रः ॥ २५ ॥
 
>
 
कोऽपि भूमा ॥
 
वि: पक्षो । विनायकेन गरुडेन, अकलितोऽअनुभूतः अहे: ताप:
यस्मिन्कर्मणि तत्तथा उत्संग भुवि समीपे निषेदुषा प्रहृष्यन् । शेष-
श्वासानिलजविषज्वालातापदुःख रहिततया पुरस्तादुपविष्टो गरुड ।
पूतनाया मोहने चित्तवृत्तिर्यस्य कलापो मयूरवर्हः । विनायको गण
पति: स: शिववक्षस्थलस्याभरणभूतनागानां तापं आकलयति स्वचेष्टणा,
तथा उत्सोकेस निषेदिवान् । इतनामा पूतानि नामानि शिव-
शंकरादीनि यस्य सः परमेश्वरता सर्वज्ञत्व सर्वकर्तृत्व- सर्व नियन्त्र-
त्वादिगुणवान् शंभुरिति ऊहना : ऊहं कुर्वन्तः तेषां महर्षीणां चित्ते
वृत्तिः यस्य । कलापः काञ्ची रशना भूषा वामांगस्थपार्वत्या धृता
 
"
 
यस्य ॥२६॥
 
D
 
हाला सुरा, हलं लाङ्गलं,
उत्ताल के तुरुन्नत वृषभध्वजः,
 
-
 
"
 
"
 
बुद्ध: पाठीनकेतो: मन्मथस्य जयी दिगम्बरत्वात् । क्रतौ क्रतु-
कतरि विप्रे च द्वेषः तत्र कृतादरः । शिवोऽपि मन्मथजयी, दक्षक्रतु-
द्वेषकृतादरः ॥२७॥
 
व्यतीतोऽतिक्रान्तः चेतसो विषयः मनोविषयभावो यस्मिन्
कर्मणि तत्तथा विद्योतमानाय मनोऽतीताय । घासे तृणे कृताशयः
 
.