This page has not been fully proofread.

चतुर्थः सर्गः ।
 
उदीतबल्याहरणाभिलाषो यो वामनोहार्यजिनं वसानः ।
तपांसि कान्तारहितो व्यतानीदाद्योऽवतादाश्रमिणामयं नः ॥ २२
 
45
 
येनाधिकोद्यत्तरवारिणाभूत् जितोऽर्जुनः संगररंगभूमौ ।
नक्षत्रनाथस्फुरितेन तेन नाथेन केनापि वयं सनाथाः ॥ २३ ॥
 
विलासिनालीकभवेन धाम्ना कामं द्विषन्तं स दृशाश्ममस्यन् ।
देवो धरापत्यकुचोष्मसाक्षी देयादमन्दात्मसुखानुभूतिम् ॥ २४ ॥
 
द्विषन्तं कुञ्जरं गजासुरं, प्रह्लादं प्रमोदं पञ्चाननं सद्योजातादिवक्त्रपञ्चक-
युतं शिवम् ॥२१॥
 
-
 
""
 
उदीत: उच्छ्रितो गर्वेण यो बलिनामकोऽसुरः तस्माद्भूमेराहणे,
अथवा तस्य विनयने अभिलाषो यस्य, मनोहारि अजिनं वसान:,
कान्तारहितो विवाहरहितः, आश्रमिणां ब्रह्मचर्याद्याश्रमवतां आद्य:
ब्रह्मचारी हरि: । बलिमाहन्तीति बल्याहा, वामनो विष्णुः तस्य
बल्याह्नः कृष्णावतारकाले, तेन सह रणे बाणासुरपक्षपातेन कृतो-
ऽभिलाष : उदोतोऽधिकः यस्य, कान्तया पार्वत्या रहितो दक्षिणामूर्ति-
रूपः, आश्रमिणां ऋषीण माद्य: नेता गुरुश्च शम्भुः ॥ २२ ॥
 
उद्यन् उद्धृतः तरवारि: खड्गो येन परशुरामेण अर्जुन कार्तवीर्यो
जितः, क्षत्रनाथा राजानः, न क्षत्रनाथा यथा तथा स्फुरितं यस्य, तेन
विष्णुना । उद्यत्तरं अतिशयेनोद्यत् वारि गङ्गाजलं यस्य तेन जटाधृत-
गङ्गेन, अर्जुनेन जितः शिरसि गाण्डीवेन हतः, नक्षत्रनाथश्चन्द्र, तेन
स्फुरितेन मौलौ भासितेन शम्भुना ॥२३॥
 
विलसिना नालीकभवेन धाम्ना ब्रह्मास्त्रेण, कामं यथेच्छं द्विषन्तं
दृशाश्मं दृशा नेत्रं, अश्मनो विकार आश्म: । नेत्रे अश्मेव असह्यं,
रावणं अस्यन् धराया अपत्यं सीता । विलासिना अलीकभवेन
निटिलजेन धाम्ना अग्निन। द्विषन्तं कामं मन्मथं, आश्मं अश्मविकारो
धूलि, इशा तृतीयेन अश्मधूलि अस्यन्, घरः पर्वतः तस्य सुता पार्वती ॥