This page has not been fully proofread.

44
 
श्रोशङ्कराभ्युदये
 
यो मन्दरागं दधदादितेयान्
सुधाभुजः स्मातनुते विषादी ।
स्वामिन डुलीलोचितचारुमूर्ते
कृपामपारां स भवान् विधत्ताम् ॥ १९ ॥
 
उल्लासयन्यो महिमानमुच्चैः स्फुरद्वाराहीशकलेवरोऽभूत् ।
तस्मै विदध्मः करयोरजस्रं सायन्तनाम्भोरुहसामरस्यम् ॥२०॥
 
समावहन् केसरितां वरां यः स्फुरद्विषत्कुञ्जरमाजघान ।
प्रह्लादमुल्लासितमादधानं पञ्चाननं तं प्रणुमः पुराणम् ॥२१॥
 
कलाया निवासभूतं जटाभारं उदञ्चयन् विस्तृणन्, अनादि गां जलं
गंगारूपं तत् तत्र जटासु आदराकलयन मेनाया हिमवत्पत्त्या इदं
पार्वतीरूपं महो अंगीकुर्वन् वामाङ्गतया आकलयन् हरः ॥१८॥
 
डुली कमठी, तस्या उचिता रुचिरा मूर्तिः कमठरूपा, यस्य ते,
तथाभूत हरे, मन्दराख्यं अगं पर्वतं दधत्, अविषादी अतिदुर्भरमन्दर-
घारणेऽप्यखिन्नः, अमृतोत्पत्तौ हेतुभूतत्वेन आदितेयान् सुधाभुजः भवा-
नातनुते । यः शिवः भवान् अमन्दं अनल्पं रागं प्रीति सुरेषु दधत्,
हालाहल भुक् विषापनयनेन स्वस्थहृदयान्देवान् सुधामपाययत् । डोलय-
त्युत्क्षिपति शरीरादिकं हावभावादिप्रदर्शनाय ताण्डवरूपा डुली क्रीडा,
तस्यां लोचिता अवलोकिता चारुमूर्तिः यस्य सः, तथाभूत शम्भो ॥ १९ ॥
 
"
 
करयो सायन्तनाम्भोरुहसामरस्यं सङ्कोचं, विदध्मः करौ मुकुली-
कृत्य प्रणमामः । महीयत इति महिः भूमिः, स्वदंष्ट्रया उद्धियमाणायाः
तस्याः मानं परिमाणं उच्चै उल्लासयन् प्रकाशयन् वराहीशः पुंवराहः
तस्य गात्रं यस्य सोऽभूत् हरिः । वरः श्रेष्ठ: अहीनामीश: स कलेवरे
भूषणत्वेन यस्य । आत्मनो महिमानं श्रेष्ठतां उल्लासयन् शिवः ॥२०॥
 
"
 
केसरी सिंहः, द्विषन् शत्रुरेव कुञ्जर : हिरण्यकशिपुः । पञ्चाननं
व्यात्ताननं नृसिंहं हरिम् । के शिरसि सरितां वां गङ्गां समावहून्,