This page has not been fully proofread.

चतुर्थः सगः ।
 
महीध्रकन्यागलसङ्गतोऽपि माङ्गल्यतन्तुः किल हालहालस् ।
यत्कण्ठदेशेऽकृत कुण्ठशक्तिमैक्यानुभावादयवस्मि भूमा ॥ १४ ॥
 
गुणत्रयातीतविभावमित्थं गोकर्णनाथं वचसाऽर्चयित्वा ।
तित्रस्स रात्रीस्त्रिजगत्पवित्रे क्षेत्रे मुदाऽत्र क्षिपति स्म कालम् ॥
हरिहरक्षेत्रवासः
 
43
 
वैकुण्ठकैलास विवर्तभूतं हरत्ततोऽधं हरिशङ्करायम् ।
दिव्यस्थलं देशिकसार्वभौम: तीर्थप्रवासी नचिरायासीत् । १६
 
भ्रमापनोदाय भिदावदानां
अद्वैतमुद्रामिह दर्शयन्तौ ।
आराध्य देवौ हरिशङ्करौ द्वौ
 
व्यर्थाभिरित्यर्चयति स्म वाग्भिः ॥ १७॥
 
उदञ्चयत् सोमकला निवासं गामादरात्तत्कलयन्ननादिस् ।
मैनं महः किञ्चन दिव्यमङ्गीकुर्वत् विभु कुशलानि कुर्यात् ॥
 
मांगल्तन्तुलाहलश्च कण्ठे वासदक्षिणभागयोः स्थितौ परस्पर-
विरुद्धौ । हालाहलः मांगल्यतन्तुना कुण्ठशक्तिरिति चित्रम् । तस्य
भूम्न: ऐक्यानुसन्धानात् अयमहमस्मि भूमा पूर्ण: ॥१४॥
 
द्वयर्थाभि: हरिशङ्करपराभिः ॥१७॥
 
सोमकाख्योऽसुर: वेदापहारी, तं लाति गृह्णाति आरक्षति
आच्छादयति इति सोमकलः, अ: कमठ: तन्निवासभूतः अनिवास:
सोमकलोऽनिवासश्च यः समुद्रः तं उदश्चयन् उवेलपुर्षवत् समुद्रान्तः
निलीनस्य सोमकस्य बहिर्यापनाय समुद्रं क्षोभयन् ।
तत् ततः अनादि
गां वेदरूपां अनादि गां नौकारूपां भुवं वा आदरेण कलयन् प्रकाशयन्,
मैनं मोनसंबन्धि दिव्यमप्राकृतं महो वपुः अंगोकुर्वन्, हरिः । सोम
 
"