This page has not been fully proofread.

चतुर्थः सर्गः ।
 
वपुः स्मरामः क्वचन स्मरारे: बलाहकाद्वैतवदावदनि ।
सौदामिनीसाध्रिमसंप्रदायसमर्थनादेशिकमन्यतश्च ॥ ६॥
 
41
 
वामाङ्गसीमाङ्कुरवंशुतृण्याचश्चन्मृगाश्वत्तरदक्षपाणि ।
सव्यार्धशोभाकलमाग्रभक्षसाकांक्षकी राज्यकरं महोऽस्मि ॥७॥
 
कामाभिमानास्तिकनास्तिकाय कामाधिकस्पर्शनकर्मठाय ।
श्यामाविटांकूरचमत्कृताय श्यामारुणाय स्पृहयामि धाम्ने ॥८
अव्याजकारुण्यनिकेतचेताः सव्याधंवीक्षाविनमन्मुखेन्दुः ।
दिव्या शुकव्यासमुखषिनव्या भव्याय भूयान्मम भावनेयम् ॥९
 
यतः अन्योन्यं मुखाभ्यामाभिमुख्यं कांक्षणीयावस्यायामास्ते,
संमुखीनत्वाभावात् । अत एव अधरचुंबनेच्छापि अर्यमाणैव ।
अन्योन्यमभिन्नतया संगतावपि विश्लेषोत्थं दुःखमेव दर्शनाद्यधरचुंबना-
कांक्षाया उदयात् तदपूर्तेच ॥ ५ ॥
 
.
 
"
 
क्वचन वामे वलाहकस्य नीलमेघस्य वदावदा अधिवक्त्री श्रीः
शोभा यस्मिन्, मेघश्यामं अन्यतश्च दक्षिणे सौदामिन्यास्तटितः
साधिम्न: : साधुत्वस्य यः संप्रदायः, तत्समर्थनायां देशिकं तटिदरुणं वपुः ॥
वामाङ्गसोम्नि पार्वतीरूपे वामभागे अंकुरन्ती अंशव एव तृण्या
तृणसमूहः तद्ग्रसनाय चञ्चन् मृगः, शिवरूपदक्ष करे यस्य सन्यार्धस्य
शोभैव कलमाग्रं शालिप्ररोहः तस्य भक्षे भक्षणे साकांक्ष: कीर: शुकः,
तद्वान् दक्षिणेतर : करः यस्य तथाभूत : महोऽहमस्मि ॥७॥
 
कामस्याभिमानो गर्वः सर्वमनोमथनजः स च आस्तिक: अस्तीति
श्रद्दधानः तस्यास्तित्वममन्वानं नास्तिकं कामगर्वविरोधि कामात्
कामितादधिकस्य स्पर्शे वितरणे कर्मठं कर्मणि शूरं श्यामाया रात्रेः
विटस्य कामुकस्य चन्द्रस्य अंकूरेण चन्द्रकलया चमत्कृतं प्राप्तानन्दं वामे
श्यामं दक्षिणेऽरुणं च तस्मै नीललोहिताय तेजसे धाम्ने स्पृहयामि ॥८॥
 
>
 
6