This page has not been fully proofread.

-३-
सूक्तिसहस्रे यादृशी श्रद्धा, श्रीभगवत्पादमहिमनि यावती प्रति-
पत्तिः, न तावान् विश्रंभ: संप्रदायागतेषु गणनेष्विति शोच्येयं
 
दशा ।
 
अस्तु । सर्वेऽपि शङ्करचरितनिबन्धार: व्यासाचलमाध-
वादयः ऐतिह्यमेव प्रमाणमुल्लिखन्ति स्पष्टगुद्द्घोषयन्ति
 
तथा । "ऐतिह्यमेवात्र वदन्ति चैवं तदेव मूलं मम भाषणेऽपि "
इति व्यासाचलो वदति पद्मपादटीकादाहप्रसंगे ( व्यासाचलीय-
शङ्करविजये ८-७६)। अत्रैव सन्दर्भेऽमुमेव श्लोकं तथैवोद्धृत-
वान् माधवोsपि । ( माधवीयशङ्करविजये १४-१६) ऐतिह्यं
विभिन्नम् । न कोऽप्यैतिह्यं एकरूपतया स्रष् मीठे । लोको
भिन्नरुचिः । न सर्वः सर्वमाददाति । न वा एकरूपं प्रकाशयति ।
अयमेव हेतुः ऐतिह्यविसंवादे ।
 
-
 
-
 
शङ्करादर्वाचीनो व्यासाचलो योगीन्द्रः ततोप्यर्वाचीनो
राजचूडामणिमखी । ततोऽप्यर्वाचीनो माधवः । माधवः समर्थ-
तम एषु, यतु स्वतन्त्रतया ग्रन्थरचनेऽव्यावृतः, प्राक्तनाचार्य-
रचितपद्येषु स्वपद्यानि संगमथ्य मनोहरं कमपि ग्रन्थसुद्भावया-
मास । व्यासाचलीय आनन्द गिरीयशंकरविजयगता राजचूडा-
मणिदीक्षितकृत शंकराभ्युदय रामभद्र दीक्षितकृत पतञ्जलि-चरित-
गताच उपत्रिशतं श्लोका माधबीये तयैव शब्दानुपूर्व्या क्वचि
द्वितपदभेदेन चोपलभ्यन्ते । संकलने प्रवृत्ततया पौर्वापर्य -
समीक्षायां प्रतिसर्ग वृत्तबन्धे एकविधे रचनायां, पुनरुक्तिवर्जने
वा न माधवः तथा श्रद्दधाति । श्रीशङ्करविजयमकरन्दसङ्कलने
मम अग्रगामी आचार्योऽयमेव ।
 
श्रीमाधवेन सङ्कलनोपयोगितया उपात्तेषु मूलग्रन्थेषु
शङ्कराभ्युदयं प्राधान्येन निर्देशमर्हति । यस्य द्वितीय
तृतीय-