This page has not been fully proofread.

तृतीयः सर्गः ।
 
युगपर्ययनृत्यदु ग्रफालज्वलनज्वालकरालकी लजाल: ।
दहनोऽधिनिशीथमस्य धाम्ना बत टीकामपि भस्मसादकार्षीत् ॥
अदहत्स्वगृहं स्वयं हताशो विमग्रन्थमसौ विदग्धुकामः ।
मतिमान्यकरं गरं च भैक्ष्ये व्यधितास्येति विजृम्भते स्म वार्ता ।
अधुना धिषणा यथापुरं नो विधुनाना विशयं प्रसादमेति ।
विषमा पुनरीहशी दशा नः किमु युक्ता भवदंघ्रिकिकराणाम् ॥
इति वादिनमेनमार्यपाद: करुणापूरकरंबितान्तरङ्गः ।
अमृतोमिसखैरपास्तमोहै: वचनैः सान्त्वयति स्म वल्गुबन्धैः ॥
विषमो बत कर्मणां विपाको विषसोहोपम एष दुनिवारः ।
विदितः प्रथमं मसायमर्थः कथितश्चाङ्ग सुरेन्द्रदेशिकाय ॥३२
मगधेषु मदीयसन्निधौ प्राक्पठिता या किल पद्मपादिका सा ।
मनसो मम नापयाति शोको व्यपयातु त्वरितं लिखेत्यवादीत् ॥
प्रसभं स विलिख्य पञ्चपादों परमानन्दभरेण पद्मपादः ।
 
उदतिष्ठदतिष्ठदभ्यरोदीरुद्गायद्धसति स्म नृत्यति स्म ॥ ३४ ॥
 
37
 
युगपर्ययो युगान्तः प्रलयकालः । उग्र : शिव: फालज्वलन: तृतीय-
नेत्रभूतोऽग्निः । कीलो ज्वाला । धाम्ना गृहेण सह ॥२८॥
 
हता कुत्सिता आशा यस्य सः अथवाभग्नमनोरथ: । पद्मपाद-
टीकाखण्डनं विधाय स्वाभिमतप्राभाकरमतं स्थापयानीति आशाया
भग्नत्वात् । अस्य पद्मवादस्य स्वस्त्रेयस्यापि सतः भैक्ष्ये ॥२९॥
 
प्रसादं नो एति न प्राप्नोति ॥३०॥
 
करंबितं मिश्रितं व्याप्तम् । वल्गुबन्धैः मञ्जुलपदयोजनैः ॥३१॥