This page has not been fully proofread.

तृतीयः सर्गः ।
 
33
 
विहिताञ्जलिना निषेव्यमाणं विनतानन्दकृताऽग्रतो रथेन ।
धृतमूर्तिभिरस्त्रदेवताभिः परितः पञ्चभिरश्चितोपकण्ठम् ॥६॥
महनीयतमालकोमलाङ्ग मकुटं रत्नमयं महार्धयन्तम् ।
शिशिरेतरभानुशोलितानं हरिनीलोपलभूधरं हसन्तम् ॥७॥
 
मृगनाभिविशेषकेण तादृङ्मुखपाथोरुहषट्पदायितेन ।
कृतलाञ्छनफालबालचन्द्रं कचभारतकान्तिबिम्बभासा ॥८॥
 
शयनीयभुजङ्गफूत्क्रियाभिः सततं भंभमिति ध्वनन्तमुच्चैः ।
उपकण्ठमुपेत्य भिक्षमाणं निजकण्ठस्थरुचि दरं दधानम् ॥ ९॥
 
शयनीयभुजङ्ग निविशेषैः सकलनाणमहाध्वरैकयूपैः ।
चतुरोऽपि समं सतां पुमर्थात् किसु दातुं कलितं भुजेश्चतुभिः ॥
 
रथेन वाहनभूतेन विनतानन्दकृता गरुडेन । अस्त्रदेवताः शङ्ख-
चक्रगदासिशाङ्गीख्यपञ्चायुधाभिमानिन्यो देवताः । अंचितोपकण्ठः
अलंकृतनिटस्थलः ॥ ६ ॥
 
स्वसंपर्के रत्नमकु महामूल्यं महनीयं कुर्वन्तं नीलाचलं,
भानुकरावभासित हसन्तं परिहसन्तं तत्सदृशम् ॥3॥
 
>
 
.
 
मुखपाथोरुहे मुखपद्मे ताशि इदमित्थमिति निरूपयितुमशक्ये,
षटपदायितेन मृगनाभिविशेष के कस्तूरीतिलकेन कचभासत् कच-
समूहात्त कान्तीनां निम्नमिव भासमानेत मृगनाभिविशेषकेण
कस्तूरीतिलकेन कृतं लाञ्छनं यस्मिन् स फालमेव बालचन्द्रः यस्य
तम् ॥८॥
 
शंख ध्वनति भंभनिति आदिशेषफूत्कियोस्थवातेन । शंखाभ
भगवतः कण्डं शंखो याचते तत्कान्तिम् ॥ ९॥
 
आदिशेषवत् दीर्घाः पीना: सुनिवं त्ता भुजाः ॥१०॥