This page has not been fully proofread.

32
 
श्रीशङ्करा भ्युदये
तृतीयः सर्गः
 
जनन्याः अन्त्येष्टिविधानम्
 
अथ कालटिनामकाग्रहारे जननी हन्त जरातुरा नितान्तम् ।
मुरवैरिपुरोन्मुखी मुनीन्दुं मुहुराधत्त मनोरथाध्वनीनम् ॥ १॥
अधिगत्य तदात्मयोगशक्तेरनुभावेन निवेद्य चाश्रितेभ्यः ।
अवलम्बिततारकापथोऽसावचिरादन्तिकमाससाद मातुः ॥२॥
 
परिपक्तिमभक्तिरेष मातुः पदपाथोजरजोऽधिमौलि तन्वन् ।
समुपादिशदद्वयात्मतत्वं स्वयमस्थूलमनण्वगोत्रवर्णम् ॥ ३॥
मनुते मम निर्गुणं मनो मे सगुणं ब्रह्म समीरयेति मात्रा ।
 
गदितो गदति स्म भक्तिगम्यं गरुडारूढमजं गदाग्रजं सः ॥४॥
 
भुजगाधिपभोगतल्पभाजं कमलाङ्कस्थलकल्पितांत्रिपद्मम् ।
अभियोजितमादरेण नीठावसुधाभ्यां वलमानचामराभ्याम् ॥५
 
मुरवैरिपुरं वैकुण्ठनो: तत्र गमनाय उन्मुखी शरीरं जिहासती ।
मनोरथस्य अभिलाषस्य अध्वानमलं असकृत् गच्छतीति अध्वनीनः ।
जयतुरा स्वनिकटे पुत्रस्थिति अकांक्षत ॥१॥
 
तारकापथो व्योममार्गः ॥२॥
 
परिपाकेन निर्वृत्ता पूर्णतामुपयाता भक्तिः यस्य ॥ ३ ॥
 
निर्गुणब्रह्मानुसन्धानं असकृन्मम मनः करोत्येव । परं सगुणे रुचि-
रिदानी मिति तस्य मनसि धारणाय मे मह्यं तत्समीरय कथय । गदो
वेदः, तस्यापि पूर्वमासीदिति गदाग्रजः । वसुदेवात् देवरक्षित यां जात:
गदः, तत्पूर्वभवः कृष्णोऽपि गदाग्रजः ॥४॥
 
विष्णुं वर्णयति दशभिः श्लोकैः ॥५॥