This page has not been fully proofread.

द्वितीय: सगः ।
निर्माय पद्मचरणो निरवद्ययुक्ति-
बद्धं प्रबन्धमतनोद्गुरुदक्षिणां सः ॥५८ ॥
 
-
 
आलोचयन्नथ तदात्वर्गात ग्रहाणां
 
ऊचे गुरुस्सुरवरार्यमुपसरे सः ।
पञ्चैव वत्स चरणाः प्रथिता इह स्युः
तत्रापि सूत्रयुगलद्वयमेव भूम्ना ॥ ५९॥
प्रारब्धकर्म परिपाकवशात्पुनस्त्वं
वाचस्पतित्वमधिगत्य वसुन्जरायाम् ।
भव्यां विधास्यसि तमां मम भाग्यटीकां
आभूतसंप्लवमधिक्षिति सा च जीयात् ॥६०॥
निखिलनिगमचूडाचिन्तया हन्त यावत्-
स्वपनमधिकसौख्यं निर्विशन् निर्विशङ्कम् ।
बहुतिथमभितोऽसौ नर्मदां नर्मदां तां
 
मगधभुवि निवासं निर्मसे निर्ममेन्द्रः ॥६१॥
 
इति दन्तिद्योतिदिवाप्रदो-सत्यमलतः खेटोनिवासदीक्षित-
तनूजस्य कामाक्षो गर्भसम्भवस्य श्रीमदर्शनारीश्वर गुरुचरण सहजता-
लन्धविद्यावैशद्यस्य राजचूडामणिदीक्षितस्य कृतिषु
शङ्कराभ्युदये काव्ये द्वितीयः सर्गः ।
 
सूत्रयुगद्वयं चतुःसूत्रः ॥ ५९॥
 
वाचस्पति मिश्रो भामतीकारः प्रसिद्धः सुरेश्वरावतारतया । अधि
क्षितिक्षितौ ॥६॥
 
यावत्स्वपनं, रात्रौ नितं वेदासविचारे अधिकसौख्यं
वेदान्तविचाराभिव्यक्तं स्वरूप निर्विधन भुञ्जतः । निर्यमाणां
यतीनामिन्द्रः बहूनां तिथीनां पूरणः कालो बहुतिथ: तं कालं,
मगधभुवि वासं निर्ममे ॥६१ ॥
 

 
"