This page has not been fully proofread.

ग्रन्थो न मया स्वतन्त्रतया रचितः परं बृहच्छङ्करविजयादिभ्यः
शताधिकेभ्यो मुद्रितामुद्रितेभ्यः तत्र तत्रोपलब्धयैव शब्दानुपूर्व्या
सङ्कलित लोकाकरग्रन्थपरिचयदानपूर्वकं इतस्ततः सङ्कलितः,
कयापि मन्मनो रुचिरया विधया सन्हब्धश्चेति । तथा सङ्कलने
प्रवृत्तस्य प्रतिग्रन्थगत ऐतिह्यमूलक: कविमनश्चित्रणमूल कश्च
चरितक्रमवस्तुनिरूपणादौ मिथो विसंवाद उपलब्धः, यं कथ
मपि सामञ्जस्येन समाधातुं नापारयम् । ऐतिह्यमूलकत्वात्
प्रामाणिकाप्रामाणिकचिन्ता दूरे न केवलं चरितक्रमे, परं
कालनिर्णयेऽपि न कोऽपि ग्रन्थ उपाकरोत् !
 
किमु तेषां महापुरुषाणां समकालिका वाल्मीकिसदृशाः
वश्यतथ्यवचसः कवयो नावतिषत ? तत्सूक्तिसंकलने अक्षरलोप-
मपि विना तद्गुप्तौ तद्विशदने जागरूका अपि पद्मपादादयः वृत्त-
संग्रहे उदासीनाः । भगवत्पादादयस्ते च महापुरुषा न स्वचरित-
कलने व्यापृताः । तेषामप्रतिमं प्रातिभं चक्षुः परोक्षमपि अध्य-
क्षितवत् । नीरसोऽपि विषय: तत्सूक्तिजातारूढ : सत्यत्वेन
एकान्ततः रसभरितो बभूव । ते न स्वचरितने सादरा इति
न चित्रमेतत् ।
 
तेषां जीवितकालोऽपि अद्यत्वे विसंवादी जातः । संप्रदा-
यैकपरायणतया स्थितवन्तो महामनीषिणोऽपि विद्वांसोऽद्य
अन्यत्त संप्रदायमनुसरन्तोऽपि कालविषये संप्रदाय निराकृतवन्त
इति चित्रमेतत् । श्रीशङ्करभगवत्पादानां तत्परम्परागतानां च
महीयसां जीवितसमयः, तत्तत्परंपरासंप्रदायगोप्तृषु पीठेषु पुण्य-
श्लोकपूर्वपुरुषस्मरणार्थेषु ग्रन्थेषु प्रायः एकरूपतया रक्षित उप-
लभ्यते । परं तत्राविश्रने विदेशीय
विवेचनाप्रसरो हेतुरभवत् ।
स्वस्वसंप्रदायागतं कालनिर्णय दूरेऽपास्य विदेशीयैः निर्दिष्टं
कालचिन्तनं कथश्चित संघटय्य तैः प्रकाश्यते । श्रीभगवत्पाद-