This page has not been fully proofread.

द्वितीयः सर्गः ।
 
भिक्षार्थमुच्चलतमद्य युवामितीमौ
 
ऊचेऽव्यमुं पुनरुवाच यतीन्द्रमम्बा ॥४९॥
 
कोपातिरेकवशतश्शपता
 
पुरा मां
 
शापावधिस्तव जयो विहितो विधाता ।
साऽहं यथाऽऽगतमुपैमि यतिप्रवीरे-
त्युक्त्वा तिरोधिमकृतोभयभरती सा ॥५०॥
 
संन्यागृह्यविधिना सकलानि कर्मा-
यह्राय शङ्करगुरुविदुषोऽस्य कुर्वन् ।
कर्णे जगौ किमपि तस्वमसीति वाक्यं
कर्णेजपं निखिलसंसृतिदुःखहानेः ॥५१॥
 
भाष्ये विधत्स्व मम वत्स कृति गभीरां
इत्यूचिवांसमवदद्गुरुमेष नमः ।
क्वाहं क्व भाष्यमनघं तदथापि युष्मत्-
कारुण्यतः किमपि कर्तुमहं यतिष्ये ॥५२॥
 
कर्मैकतानमतिरेष कथं गुरो ते
विश्वासपात्रमभवद्वत विश्वरूपः ।
भाष्यस्य पद्मपद एव करोतु टीकां
 
इत्यूचिरे रहसि योगिवरं विधेयाः ॥ ५३॥
 
29
 
स्वभर्तुः पराजयं मध्यस्थरूपेण निश्चित्य, पराजितो जेतुराश्रमं
स्वीकुर्यादिति पणनं चानुसृत्य, स्वभर्तारं संभ्या सनं सिद्धवत्कृत्य अद्य
युवां भिक्षार्थं उच्चलतं उद्गच्छतं इति एकप्रकारेण उभावचे ॥४९॥
 
तव जयः त्वत्कर्तृको जयः ॥५०॥
 
कर्णेजपं फलस्य प्रकाशनात्प्रागेव रहसि सूचकम् ॥५१॥
कर्मणि कर्ममार्गे एकताना अनन्यविषयतया प्रवृत्ता मतिर्यस्य ॥५३