This page has not been fully proofread.

28
 
श्रीशङ्कराभ्युदयें
 
मन्थानशैलमथनश्रममन्तरेण
 
स्वैरं सुधारसमिव स्वरसोपपन्नम् ।
आकस्मिकं निधिमिवानवधिश्व जानन्
एनं सभाजयति ह स्म यतिप्रवीरम् ॥४६॥
 
भिक्षां प्रतिश्रुतवति प्रथमं स वाद-
भिक्षाप्रदानमथ, वाग्मिनि विश्वरूपे ।
स्वर्णाभसूपघृतपायसशर्करेक्षु-
रंभारसालपनसाढ्यमभुंक्त भैक्षम् ॥४७॥
 
जेतुः पराजित इहाश्रममाददीते-
त्येतौ मिथः कृतपणौ यतिविश्वरूपौ ।
अम्बामुदारधिषणामभिषिच्य साक्ष्ये
जल्पं वितेनतुरथो जयदत्तदृष्टी ॥४८॥
 
इत्थं तयोः कथयतोस्तु समक्षमेव
यातेषु षट्सु दिवसेष्वथ सप्तमेऽह्नि ।
 
भारत्या जयाय प्रवृत्तस्य शङ्करस्य परकायप्रवेशः, कामतन्त्रानुभवः,
ततः परावृत्य उभयभारत्या जय इति क्रमः । विशेषस्तु श्रीशङ्कर-
विजयमकरन्दे अस्मत्संकलिते द्रष्टव्यः ॥४५॥
 
विश्वरूपः शङ्करागमनेन सुधां प्राप्तां अमन्यत सुधा तु मथनश्रम-
लभ्या, इयं तु सुधा स्वैरं स्वेच्छया प्राप्ता स्वरसोपपन्ना चेति विशेषः ॥
प्रथमं भिक्षां, अथ ततः, वादभिक्षाप्रदानं प्रतिश्रुतवति विश्व-
रूपे भैक्षमभुंक्त ॥४७॥
 
अम्बां विश्वरूपपत्नोम् ॥४८॥