This page has not been fully proofread.

द्वितीयः सर्गः ।
 
तेनैव तावककृतिष्वपि वार्तिकानि
कमन्दिवर्यतम कारय आ वितम्बः ।
त्वं विश्वनाथ इव से समये समागाः
तत्तारकं समुपदिश्य कृतार्थयेथाः ॥४३॥
 
इत्यूचिवांसमिममृद्धसुखप्रकाशं
ब्रह्मोपदिश्य बहिरन्तरपास्तमोहम् ।
तन्वन्दयानिधिरसौ तरसाश्रमार्ग-
मार्गादवाय विषयान्मगधा भिधानान् ॥४४॥
 
आराध्य साम्बशिवनाहित वैश्वदेवः
पश्यन्नथातिथिजनान्परितो दिशासु ।
त्रय्यन्तदेशिकममुं विदशाध्वनाऽसौ
अभ्यर्णमागतमलोकत विश्वरूपः ॥ ४५ ॥
 
27:
 
वाराणसीपुरपतिः कृपया अत्र सन्निहितः इव तारकं ब्रह्मोपदेष्टुम् ॥
 
ऋद्धः समृद्धः पूर्णः सुखप्रकाशः आत्मानन्दानुभव: तद्रूपं ब्रह्म
उपदिश्य तेनोपदेशेन संसारमूलाज्ञानमोहनाशं तम्वन्, अभ्राणां
मार्गोऽन्तरिक्षं तन्मार्गात् विहायसगत्या ॥४४॥
 

 
कथाक्रमोऽव द्वेषा। अतिथी प्रतीक्षमाणं विश्वरूपमुपगम्य शंकरो
वादभिक्षां यथाचे । अभ्युपगते च वादे, भिक्षां स्त्रीचकार । ततः सपण-
वन्धं प्रवृत्ते वादे, जितो विश्वरूपः संन्यासमगृह्णात् । तत्पत्नी वाणी
शापान्मुक्ता अन्तरधादिति शंकराभ्युदयगतः क्रमः, व्यासाचलीये गुरु-
वंशकाव्ये गोविन्दनाथीये चानुत्रियते । आनन्द गिरीय माधवीय-
चिद्विलासीयादौ तु पत्र्ये कर्मणि प्रवृत्तो विश्वरूपः ।
निमन्त्रितौ । मुद्रिते द्वारे शङ्करः गगनमार्गादन्तरवततार । क्रोधेनाध्य-
क्षिपद्विश्वरूपः शंकरम् । व्यासजैमिनी शमं उपादिशताम् । शङ्करेण
प्रस्तुतां वादभिक्षां विश्वरूपः अङ्गीकार । वादे जितः सः । उभय-
व्यासजैमिनी
 
+