This page has not been fully proofread.

26
 
श्रीशङ्कराभ्युदये
 
प्रत्युत्तरं व्यधित भट्टगुरुर्मुनीन्दो
मय्यल्पकेऽपि महिमोकिरियं तवाहा॑ ।
आजानतोऽल कुटिलेऽपि जने महान्तः
स्वारोपयन्ति हि गुणं धनुषीव शूराः ॥३८॥
 
सञ्जीवनाय चिरकालमृतस्य च त्वं
 
शक्तोऽसि शङ्कर दयोमिकटाक्षपातेः ।
आरब्धमेतदधुना व्रतमागमोक्तं
 
मुखन् सतां न भवितास्मि मुधा चिनिन्द्यः ॥३९॥
 
चार्वाकदर्शन विधानसशेषधातृ-
शापेन संप्रति शतऋतुदेशिकेन्द्रः ।
विद्योतते मगधसीमति विश्वरूप-
नामा समस्तनयसागरपारदृश्वा ॥४०॥
 
अम्बेक इत्यभिहितस्य हि तस्य लोकैः
अम्बेति बान्धवजनैरभिधीयमाना ।
शप्ता सरोरुह्भवेन सरस्वती सा
 
जाता वधूरुभयमा रतिकाभिधाना ॥४१॥
 
सर्वासु शास्त्रसरणीषु स विश्वरूपो
मत्तोऽधिकः प्रियतमश्च ममाश्रवेषु ।
तत्प्रेयसीं शमधनेन्द्र विधाय साक्ष्ये
वादे विजित्य तमिमं वशगं विधेहि ॥४२॥
 
गुणो मौर्वी धार्मिकत्वादिणिश्च ॥३८॥
 
अंबेक: अंबेति विश्वरूपस्य उभभात्याच लोकेऽभिधानम् ।
उंदेक: उंवेति पाठः तत् त्राहूतं नामेति माधवीयव्याख्यायाम् ॥४२ ॥
 
s