This page has not been fully proofread.

द्वितीयः सर्गः ।
 
बाह्यं मतं निरसितुं सुगतादधीत्य
बाल्यात्तमेव समघातयमार्य जित्वा ।
ईशं निरास्थमपि च स्वत एव वेदा
 
मानं न तत्कृततयेतिमताभिमानात् ॥३४॥
 
प्रायोऽधुना तदुभयप्रभवाघशान्त्ये
 
प्राविक्षमार्य तुषपावकमात्तदीक्षः ।
भाग्यं न मेऽप्यजनि शाबरभाष्यवत्त्व-
द्भाष्येsपि किञ्चन विलिख्य यशोऽधिगन्तुम् ॥ ३५॥
 
इत्यूचिवांसमय भट्टकुमारिलं तं
ईषद्विकस्वरमुखांबुजमाह मौनी ।
श्रुत्युक्तकर्मविमुखान् सुगतान्निहन्तुं
 
जाने भवन्तमिह जातमहं गुहन्तु ॥३६॥
 
सम्भावनापि भवतो न हि पातकस्य
सत्यं व्रतं चरसि सज्जनशिक्षणाय ।
उज्जीवयामि करकांबुकणोक्षणेन
 
भाष्येऽपि मे कलय वार्तिकमङ्ग भव्यम् ॥३७॥
 
25
 
बाह्यं वेदबाह्यम् । वेदाः स्वतः प्रमाणभूताः नित्या अकर्तृकाः ।
परमेश्वरः सर्वज्ञतमः परमाप्तोऽपि वेदानां न कर्ता । यदि कश्चिकर्ता-
Sभविष्यत् भ्रमप्रमादादिवक्तृदोषाः तत्र प्रसक्ता अभविष्यन् । ततोऽपि
ईश्वरो नापेक्ष्यते । कर्म साक्षात्फलं ददाति । अतोऽपि ईश्वरो
नापेक्ष्यते । इति मोमांसकमताभिमानात् ईश्वरं निरास्थं निरस्तवान् ॥
 
गुरुद्रोहः ईश्वरनिन्दा इति पापद्वयम् ॥३५॥
 
करकः कमण्डुलः ॥३७॥
 
4